Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 513

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- बृहती Swara- मध्यमः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
आ꣡ सो꣢म स्वा꣣नो꣡ अद्रि꣢꣯भिस्ति꣣रो꣡ वारा꣢꣯ण्य꣣व्य꣡या꣢ । ज꣢नो꣣ न꣢ पु꣣रि꣢ च꣣꣬म्वो꣢꣯र्विश꣣द्ध꣢रिः꣣ स꣢दो꣣ व꣡ने꣢षु दध्रिषे ॥५१३॥

आ । सो꣣म । स्वानः꣢ । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । तिरः꣢ । वा꣡रा꣢꣯णि । अ꣣व्य꣡या꣢ । ज꣡नः꣢꣯ । न । पु꣣रि꣢ । च꣣म्वोः꣢꣯ । वि꣣शत् । ह꣡रिः꣢꣯ । स꣡दः꣢꣯ । व꣡ने꣢꣯षु । द꣣ध्रिषे ॥५१३॥

Mantra without Swara
आ सोम स्वानो अद्रिभिस्तिरो वाराण्यव्यया । जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे ॥

आ । सोम । स्वानः । अद्रिभिः । अ । द्रिभिः । तिरः । वाराणि । अव्यया । जनः । न । पुरि । चम्वोः । विशत् । हरिः । सदः । वनेषु । दध्रिषे ॥५१३॥

Samveda - Mantra Number : 513
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) परमात्म-सोम ! (अद्रिभिः) ध्यानरूपैः अभिषवपाषाणैः (आ स्वानः) आसूयमानः त्वम् (अव्यया वाराणि तिरः) अविबालजनितदशापवित्रमध्यादिव शुद्धचित्तवृत्तिमध्यात् क्षरितो भवसि। अविभ्यो जातानि अव्यानि। ‘सुपां सुलुक्०’ इति द्वितीयाबहुवचनस्य याऽऽदेशे ‘अव्यया’ इति। अथ परोक्षकृतमाह। शुद्धचित्तवृत्तिरूपदशापवित्रमध्यात् क्षरितः (हरिः) दुःखपापादिहर्ता स रसागारः परमेश्वरः (चम्वोः) अधिषवणफलकयोरिव बुद्ध्यात्मनोः (विशत्) निविशति, (जनः न) मनुष्यो यथा (पुरि) नगर्यां विशति तद्वत्। अथ पुनः प्रत्यक्षकृतमाह। ततश्च हे सोम परमात्मन् ! त्वं (वनेषु) उदकेषु, अम्मयेषु प्राणेषु। वनमित्युदकनाम। निघं० १।१२। आपो वै प्राणाः। श० ३।८।२।४। (सदः) स्थितिम् (दध्रिषे) धारयसि। डुधाञ् धारणपोषणयोः। लडर्थे लिटि सिपि दधिषे इति प्राप्ते ‘बहुलं छन्दसि’ अ० ७।१।८ इति रुडागमः ॥३॥ अत्र ‘जनो न पुरि चम्वोर्विशद्धरिः’ इत्यत्रोपमा ॥३॥
Essence
यथा ग्रावभिरभिषुतोऽविबालमयैर्दशापवित्रैः क्षारितः सोमौषधिरसो द्रोणकलशयोः प्रविष्टो जलेन मिश्रितो जायते तथैवानन्दरसागारः परमेश्वरो यदा ध्यानैरभिषुतः शुद्धचित्तवृत्तिभिः क्षारितः बुद्ध्यात्मनोः प्रविष्टः सन् प्राणानभिव्याप्नोति तदैव साधकस्योपासना सफलीभवति ॥३॥
Subject
अथ सोमः परमात्मा सम्बोध्यते।
Footnote
१. ऋ० ९।१०७।१० ‘स्वानो, दध्रिषे’ इत्यत्र क्रमेण ‘सुवानो, दधिषे’ इति पाठः। साम० १६८९।