Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 512

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- बृहती Swara- मध्यमः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
प꣢री꣣तो꣡ षि꣢ञ्चता सु꣣त꣢꣫ꣳ सोमो꣣ य꣡ उ꣢त्त꣣म꣢ꣳ ह꣣विः꣢ । द꣣धन्वा꣡न् यो नर्यो꣢꣯ अ꣣प्स्वा꣢३꣱न्त꣢꣯रा सु꣣षा꣢व꣣ सो꣢म꣣म꣡द्रि꣢भिः ॥५१२॥

प꣡रि꣢꣯ । इ꣣तः꣢ । सि꣣ञ्चत । सुत꣢म् । सो꣡मः꣢꣯ । यः । उ꣣त्तम꣢म् । ह꣣विः꣢ । द꣣धन्वा꣢न् । यः । न꣡र्यः꣢꣯ । अ꣣प्सु꣢ । अ꣣न्तः꣢ । आ । सु꣣षा꣡व꣢ । सो꣡म꣢꣯म् । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः ॥५१२॥

Mantra without Swara
परीतो षिञ्चता सुतꣳ सोमो य उत्तमꣳ हविः । दधन्वान् यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ॥

परि । इतः । सिञ्चत । सुतम् । सोमः । यः । उत्तमम् । हविः । दधन्वान् । यः । नर्यः । अप्सु । अन्तः । आ । सुषाव । सोमम् । अद्रिभिः । अ । द्रिभिः ॥५१२॥

Samveda - Mantra Number : 512
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—सोमौषधिरसपक्षे। हे मनुष्याः ! (यः सोमः) य सोमरसः (उत्तमम्) उत्कृष्टतमम् (हविः) हव्यं भोज्यं वा अस्ति तम् (सुतम्) अभिषुतं सोमरसम् (इतः२) अस्मात् यज्ञवेदिस्थलाद् भोजनालयाद् वा (परि सिञ्चत) यज्ञाग्नौ जाठराग्नौ वा परितः जुहुत। संहितायाम् ‘ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्’ अ० ६।३।१३३ इति दीर्घः। (नर्यः) नृभ्यो हितः (यः) सोमरसः (दधन्वान्) यजमानं पातारं वा धृतवान्। धन धान्ये जुहोत्यादिः। अत्र धारणार्थः। लिटि क्वसौ रूपम्। यं च (सोमम्) सोमरसम्, अभिषोता (अद्रिभिः) ग्रावभिः अभिषवपाषाणैः, तीव्रताया न्यूनीकरणाय (अप्सु अन्तः) जलेषु मध्ये (आ सुषाव) अभिषुणोति३ ॥ अथ द्वितीयः—अध्यात्मपरः। हे मनुष्याः ! (यः सोमः) यो भक्तिरसः, उपासनायज्ञे (उत्तमं हविः) उत्कृष्टतमं हव्यम् अस्ति तम् (सुतम्) अभिषुतं भक्तिरसम्, यूयम् (इतः) अस्मात् हृदयात् (परि सिञ्चत) परितः प्रवाहयत, (नर्यः) नराणां हितकर्ता (यः) भक्तिरसः (दधन्वान्) उपासितारं धृतवान् भवति, यं च (सोमम्) भक्तिरसम्, उपासनायज्ञस्य यजमानः आत्मा (अद्रिभिः) ध्यानरूपैः अभिषवपाषाणैः (अप्सु अन्तः) प्राणेषु मध्ये (आ सुषाव) आ सुनोति ॥२॥ अत्र श्लेषालङ्कारः ॥२॥
Essence
यथा ब्राह्मयज्ञे भोजने वा सोमौषधिरसो ग्रावभिरभिषुत्य जलेषु सम्मिश्र्यते तथैवाध्यात्मयज्ञे भक्तिरसो ध्यानरूपैर्ग्रावभिरभिषुत्य स्वजीवनाङ्गतां नेयः ॥२॥
Subject
अथ जनान् सोमं सेक्तुं प्रेरयति।
Footnote
१. ऋ० ९।१०७।१, य० १९।२ ऋषिः भारद्वाजः, साम० १३१३। २. परीतो षिञ्चत। संहितायां सिञ्चतौ परे ओकारश्छान्दसः। तथा हि, ‘तो षि’ ७।१ इति हि ऋक्तन्त्रप्रातिशाख्यम्। ‘इदं च रूपग्रहणम्। इतः सिञ्चत’ इत्यत्र सकारप्राप्तस्य विसर्जनीयस्य ग्रहणादोकारप्राप्तिः। परि इतः सिञ्चत, ‘परीतो षिञ्चत’। इति च तत्र विवरणम्। ३. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सोमौषधिविषये व्याख्यातवान्। तथाहि तत्र तत्कृतो भावार्थः—“मनुष्यैरुत्तमा ओषधीर्जले संस्थाप्य मथित्वाऽऽसवं निस्सार्यानेन यथायोग्यं जाठराग्निं सेचित्वा बलारोग्ये वर्द्धनीये” इति।