Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 510

1875 Mantra
Devata- पवमानः सोमः Rishi- अमहीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣣पघ्न꣡न्प꣢वते꣣ मृ꣢꣫धोऽप꣣ सो꣢मो꣣ अ꣡रा꣢व्णः । ग꣢च्छ꣣न्नि꣡न्द्र꣢स्य नि꣣ष्कृ꣢तम् ॥५१०॥

अ꣣पघ्न꣢न् । अ꣣प । घ्न꣢न् । प꣣वते । मृ꣡धः꣢꣯ । अ꣡प꣢꣯ । सो꣡मः꣢꣯ । अ꣡रा꣢꣯व्णः । अ । रा꣣व्णः । ग꣡च्छ꣢꣯न् । इ꣡न्द्र꣢꣯स्य । नि꣣ष्कृत꣢म् । निः꣣ । कृत꣢म् ॥५१०॥

Mantra without Swara
अपघ्नन्पवते मृधोऽप सोमो अराव्णः । गच्छन्निन्द्रस्य निष्कृतम् ॥

अपघ्नन् । अप । घ्नन् । पवते । मृधः । अप । सोमः । अराव्णः । अ । राव्णः । गच्छन् । इन्द्रस्य । निष्कृतम् । निः । कृतम् ॥५१०॥

Samveda - Mantra Number : 510
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सोमः) पवित्ररसनिधिः परमेश्वरः (इन्द्रस्य) जीवात्मनः (निष्कृतम्२) संस्कृतं हृदयरूपं गृहम् (गच्छन्) प्रसर्पन्, (मृधः३) संग्रामकारिणः पापरूपान् शत्रून् (अपघ्नन्) अपध्वंसयन्, (अराव्णः) अदानशीलान् स्वार्थभावांश्च (अप) अपघ्नन् विनाशयन्। उपसर्गावृत्त्या क्रियापदावृत्तिरध्याह्रियते इति वैदिकी शैली। (पवते) पवित्रतां प्रयच्छति ॥१४॥
Essence
यदा पावकस्यानन्दरसस्य धारां प्रवाहयन् परमेश्वरः साधकस्य हृदये प्रकटीभवति तदा तदीयं हृदयं सर्ववासनारहितं स्वार्थवृत्तिविहीनं च भूत्वा पवित्रं जायते ॥१४॥ अत्र सोमस्य परमात्मनस्तज्जन्याया आनन्दरसधारायाश्च वर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन संगतिरस्तीति विजानीत ॥ इति षष्ठे प्रपाठके प्रथमार्धे द्वितीया दशतिः ॥ इति पञ्चमेऽध्याये चतुर्थः खण्डः ॥
Subject
अथ सोमस्य परमात्मनः कर्म वर्णयति।
Footnote
१. ऋ० ९।६१।२५, साम० १२१३। २. निष्कृतं संस्कृतं द्रोणकलशम्—इति भ०। ३. मृधः संग्रामं पाप्मनो वा—इति वि०। हिंसकान् शत्रून्—इति भ०।