Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 51

1875 Mantra
Devata- अग्निः Rishi- सौभरि: काण्व: Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
प्र꣡ दैवो꣢꣯दासो अ꣣ग्नि꣢र्दे꣣व꣢꣫ इन्द्रो꣣ न꣢ म꣣ज्म꣡ना꣢ । अ꣡नु꣢ मा꣣त꣡रं꣢ पृथि꣣वीं꣡ वि वा꣢꣯वृते त꣣स्थौ꣡ नाक꣢꣯स्य꣣ श꣡र्म꣢णि ॥५१॥

प्र꣢ । दै꣡वो꣢꣯दासः । दै꣡वः꣢꣯ । दा꣣सः । अग्निः꣢ । दे꣣वः꣢ । इ꣡न्द्रः꣢꣯ । न । म꣣ज्म꣡ना꣢ । अ꣡नु꣢꣯ । मा꣣त꣡र꣢म् । पृ꣣थिवी꣢म् । वि । वा꣣वृते । तस्थौ꣢ । ना꣡क꣢꣯स्य । श꣡र्म꣢꣯णि ॥५१॥

Mantra without Swara
प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना । अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि ॥

प्र । दैवोदासः । दैवः । दासः । अग्निः । देवः । इन्द्रः । न । मज्मना । अनु । मातरम् । पृथिवीम् । वि । वावृते । तस्थौ । नाकस्य । शर्मणि ॥५१॥

Samveda - Mantra Number : 51
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(दैवोदासः२) दिवो विद्याधर्मप्रकाशस्य दाता दिवोदासः धार्मिको जनः। दिवोदासस्यायं दैवोदासः धार्मिकजनप्रियः इत्यर्थः। ‘दिवश्च दास उपसंख्यानम्।’ अ० ६।३।२१ वा० इति षष्ठ्या अलुक्। (देवः) प्रकाशकः (अग्निः) जगन्नेता परमेश्वरः (इन्द्रः न) बलवान् राजा इव (मज्मना) बलेन। मज्म इति बलनाम। निघं० २।९। (प्र३) प्रभवति, समर्थोऽस्तीत्यर्थः। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। (तदेव) तस्य सामर्थ्यं वर्ण्यते—स हि (मातरम्) सर्वेषां जनानां मातृभूताम् (पृथिवीम्) भूमिम्। उक्तं च, माता भूमिः पुत्रो अहं पृथिव्याः।’ अ० १२।१।१२ इति।। (अनु वि वावृते४) अनुकूलतया सूर्यं परितो वि वर्तयति परिभ्रमयति। अपि च, स एव परमेश्वरः (नाकस्य) आदित्यस्य। नाक आदित्यो भवति। नेता रसानां नेता भासां, ज्योतिषां प्रणयः। निरु० २।१४। (शर्मणि) गृहे, तन्मण्डले इत्यर्थः। शर्म गृहम्। निघं० ३।४। (तस्थौ) तिष्ठति। यो॒ऽसावा॑दि॒त्ये पुरु॑षः॒ सोऽसा॒वहम्। य० ४०।१७ इति श्रुतेः ॥७॥ अत्रोपमालङ्कारः ॥७॥
Essence
यथा कश्चिन्मानवो राजा स्वबलेन राष्ट्रभूमिं नियमेषु संचालयति, तथैव परमात्मा पृथिवीं सूर्यं परितः परिभ्रमयति, आदित्ये चापि कृतनिवासस्तद्द्वारा पृथिव्यादीन् ग्रहोपग्रहान् प्रकाशयति ॥७॥
Subject
अथ परमात्मनो महिमानं वर्णयन्ताह।
Footnote
१. ऋ० ८।१०३।२, देव इन्द्रो, शर्मणि। इत्यत्र क्रमेण देवाँ अच्छा, सानवि इति पाठः। साम० १५१७। २. दिवोदासम् दिवो विद्याधर्मप्रकाशस्य दातारम्—इति ऋ० १।११२।१४ भाष्दे द०। दिवोदासः ऋषिः तेन समिन्धितः दैवोदासः अग्निः देवः—इति वि०। दिवोदासेन अभ्यर्हितः पूर्वम् अग्निः—इति भ०। दिवोदासेन आहूयमानः—इति सा०। ३. प्र इत्युपसर्गदर्शनाद् आख्याताध्याहारः, प्रगच्छतु देवो अग्निः। अथवा प्रभवतीति समाप्तिः—इति भ०। ४. वि वावृते परिवर्तयति—इति वि०। विशेषेण प्रवर्तयति—इति सा०।