Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 508

1875 Mantra
Devata- पवमानः सोमः Rishi- जमदग्निर्भार्गवः Chhand- गायत्री Swara- षड्जः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣣यं꣡ विच꣢꣯र्षणिर्हि꣣तः꣡ पव꣢꣯मानः꣣ स꣡ चे꣢तति । हि꣣न्वान꣡ आप्यं꣢꣯ बृ꣣ह꣢त् ॥५०८॥

अ꣣य꣢म् । वि꣡च꣢꣯र्षणिः । वि । च꣣र्षणिः । हितः꣢ । प꣡व꣢꣯मानः । सः । चे꣣तति । हिन्वानः꣢ । आ꣡प्य꣢꣯म् । बृ꣣ह꣢त् ॥५०८॥

Mantra without Swara
अयं विचर्षणिर्हितः पवमानः स चेतति । हिन्वान आप्यं बृहत् ॥

अयम् । विचर्षणिः । वि । चर्षणिः । हितः । पवमानः । सः । चेतति । हिन्वानः । आप्यम् । बृहत् ॥५०८॥

Samveda - Mantra Number : 508
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सः) पूर्व-वर्णितः (विचर्षणिः) विशेषद्रष्टा (हितः) सर्वेषां हितकरः (अयम्) एष रसनिधिः परमेश्वरः (पवमानः) अन्तःकरणं शोधयन् (बृहत्) महत् (आप्यम्) आपित्वं बन्धुत्वम् (हिन्वानः) निर्वहन्। हि गतौ वृद्धौ च, भ्वादिः। (चेतति) चेतयति बोधयति। णिज्गर्भोऽयं प्रयोगः ॥१२॥
Essence
उपासितः परमेश्वरोऽन्तःकरणं संशोध्य जीवान् जागरूकान् विधाय बन्धुत्वं निर्वहति ॥१२॥
Subject
अथ कीदृशः परमात्मा किं करोतीत्याह।
Footnote
१. ऋ० ९।६२।१०