Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 504

1875 Mantra
Devata- पवमानः सोमः Rishi- कश्यपो मारीचः Chhand- गायत्री Swara- षड्जः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
वृ꣡षा꣢ सोम द्यु꣣मा꣡ꣳ अ꣢सि꣣ वृ꣡षा꣢ देव꣣ वृ꣡ष꣢व्रतः । वृ꣡षा꣣ ध꣡र्मा꣢णि दध्रिषे ॥५०४॥

वृ꣡षा꣢꣯ । सो꣣म । द्युमा꣢न् । अ꣣सि । वृ꣡षा꣢꣯ । दे꣣व । वृ꣡ष꣢꣯व्रतः । वृ꣡ष꣢꣯ । व्र꣣तः । वृ꣡षा꣢꣯ । ध꣡र्मा꣢꣯णि । द꣣ध्रिषे ॥५०४॥

Mantra without Swara
वृषा सोम द्युमाꣳ असि वृषा देव वृषव्रतः । वृषा धर्माणि दध्रिषे ॥

वृषा । सोम । द्युमान् । असि । वृषा । देव । वृषव्रतः । वृष । व्रतः । वृषा । धर्माणि । दध्रिषे ॥५०४॥

Samveda - Mantra Number : 504
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) रसनिधे जगदीश्वर ! (द्युमान्) द्युतिमान् त्वम् (वृषा) तेजोवर्षकः सूर्यः इव (असि) वर्तसे। हे (देव) दानादिगुणयुक्त ! (वृषव्रतः) सद्गुणादीनां वर्षणकर्मा त्वम् (वृषा) वर्षकः पर्जन्यः इव असि। (वृषा) धर्मवर्षकः त्वम् (धर्माणि) धर्मकर्माणि (दध्रिषे) धारयसि। धृञ् धारणे, भ्वादिः। लडर्थे लिट् ॥८॥ अत्र ‘वृषा’ इत्यस्यावृत्तौ यमकालङ्कारः। ‘वृषा असि’ वर्षकः सूर्य इव पर्जन्य इव च वर्तसे इति लुप्तोपमम् ॥८॥
Essence
उपासितः परमेश्वरः सूर्यवन्मेघवच्च वर्षको भूत्वा धनधर्मतेजःशान्तिसुखादीनां वृष्टिभिरुपासकं कृतार्थयति ॥८॥
Subject
अथ सोमाख्यस्य जगदीश्वरस्य महिमानमाह।
Footnote
१. ऋ० ९।६४।१, ‘दध्रिषे’ इत्यत्र ‘दधिषे’ इति पाठः। साम० ७८१।