Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 502

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣡नु꣢ प्र꣣त्ना꣡स꣢ आ꣣य꣡वः꣢ प꣣दं꣡ नवी꣢꣯यो अक्रमुः । रु꣣चे꣡ ज꣢नन्त꣣ सू꣡र्य꣢म् ॥५०२॥

अ꣡नु꣢꣯ । प्र꣣त्ना꣡सः꣢ । आ꣣य꣡वः꣢ । प꣣द꣢꣯म् । न꣡वी꣢꣯यः । अ꣣क्रमुः । रुचे꣢ । ज꣣नन्त । सू꣡र्य꣢꣯म् ॥५०२॥

Mantra without Swara
अनु प्रत्नास आयवः पदं नवीयो अक्रमुः । रुचे जनन्त सूर्यम् ॥

अनु । प्रत्नासः । आयवः । पदम् । नवीयः । अक्रमुः । रुचे । जनन्त । सूर्यम् ॥५०२॥

Samveda - Mantra Number : 502
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
सोमस्य परमात्मनः साहाय्येन (प्रत्नासः) प्रत्नाः ज्ञानेन पुराणाः (आयवः) मनुष्याः (नवीयः) नूतनतरम् (पदम्) अमात्यन्यायाधीशत्वादिरूपं मोक्षरूपं वा। तद्विष्णोः॑ पर॒मं प॒दं सदा॑ पश्यन्ति सू॒रयः। ऋ० १।२२।२० इति श्रुतेः। (अनु अक्रमुः) आनुकूल्येन प्राप्नुवन्ति। (रुचे) प्रकाशाय, ते (सूर्यम्) विद्यासूर्यम् अध्यात्मसूर्यं वा (जनन्त) प्रकटयन्ति। जनी प्रादुर्भावे णिजन्तः, लडर्थे लङ्, अडभावः, णेर्लुक् ॥६॥ अत्र ‘प्रत्नासः वृद्धा जीर्णा जनाः नवीयः पदम् अक्रमुः’ इति नवीनतरपदप्राप्तिहेत्वभावेऽपि तत्प्राप्तिवर्णनाद् विभावनालङ्कारो ध्वन्यते। किञ्च, ‘आयवः मनुष्याः सूर्यं जनन्त’ इत्यत्र मनुष्याणां सूर्यजननासंभवात् सूर्यस्य विद्याप्रकाशेऽध्यात्मप्रकाशे वा लक्षणा ॥६॥
Essence
परमात्मनः कृपया स्वपुरुषार्थेन च मनुष्याः सांसारिकमुच्चोच्चपदं परमं मुक्तिपदं चापि प्राप्तुं, राष्ट्रे जगति च ज्ञानविज्ञानस्य सदाचारस्य च सूर्यं जनयितुं क्षमन्ते ॥६॥
Subject
अथ सोमस्य परमात्मनः साहाय्येन जनाः किं प्राप्नुवन्तीत्याह।
Footnote
१. ऋ० ९।२३।२, ऋषिः असितः काश्यपो देवलो वा।