Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 50

1875 Mantra
Devata- अग्निः Rishi- प्रस्कण्वः काण्वः Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
श्रु꣣धि꣡ श्रु꣢त्कर्ण꣣ व꣡ह्नि꣢भिर्दे꣣वै꣡र꣢ग्ने स꣣या꣡व꣢भिः । आ꣡ सी꣢दतु ब꣣र्हि꣡षि꣢ मि꣣त्रो꣡ अ꣢र्य꣣मा꣡ प्रा꣢त꣣र्या꣡व꣢भिरध्व꣣रे꣢ ॥५०॥

श्रु꣣धि꣢ । श्रु꣣त्कर्ण । श्रुत् । कर्ण । व꣡ह्नि꣢꣯भिः । दे꣣वैः꣢ । अ꣣ग्ने । सया꣡व꣢भिः । स꣣ । या꣡व꣢꣯भिः । आ । सी꣣दतु । बर्हि꣡षि꣢ । मि꣣त्रः꣢ । मि꣣ । त्रः꣢। अ꣣र्यमा꣢ । प्रा꣣तः । या꣡व꣢꣯भिः । अ꣣ध्वरे꣢ ॥५०॥

Mantra without Swara
श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः । आ सीदतु बर्हिषि मित्रो अर्यमा प्रातर्यावभिरध्वरे ॥

श्रुधि । श्रुत्कर्ण । श्रुत् । कर्ण । वह्निभिः । देवैः । अग्ने । सयावभिः । स । यावभिः । आ । सीदतु । बर्हिषि । मित्रः । मि । त्रः। अर्यमा । प्रातः । यावभिः । अध्वरे ॥५०॥

Samveda - Mantra Number : 50
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे (श्रुत्कर्ण) ! शृणोतीति श्रुत्, श्रुतौ श्रवणशीलौ कर्णौ यस्य स श्रुत्कर्णः, अपरिमितश्रोत्रशक्तिसम्पन्नः, तादृशः। परमात्मनो निरवयवत्वात् कर्णशब्देन तदीया श्रवणशक्तिर्लक्ष्यते। उक्तं च—अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः। इति। श्वेता० उप० ४।१९। (अग्ने) परमात्मन् ! त्वम् (वह्निभिः) वहन्तीति वह्नयः अश्वाः तैः अश्वभूतैः अश्ववद् वहनशीलैः, अश्वा यथा स्वपृष्ठमारोप्य जनान् लक्ष्यस्थानं प्रापयन्ति तथा ये स्तोतारं समुन्नतिशिखरं नयन्ति तादृशैः। वह्निः अश्वनाम। निघं० १।१४। (सयावभिः२) त्वया सहैव यान्ति समागच्छन्ति ये तथाविधैः (देवैः) दिव्यगुणैः सार्द्धम्, (श्रुधि) मदीयां प्रार्थनां शृणु, यथा त्वं मत्प्रार्थनां श्रोष्यसि तथा दिव्यगुणा अपि शृण्वत्विति भावः। (अध्वरे) हिंसादिकल्मषरहिते प्रातःक्रियमाणे ममोपासनायज्ञे (प्रातर्यावभिः) प्रातः यज्ञं समायान्ति तैः दिव्यगुणैः सह (मित्रः) मित्रवत् स्नेहशीलः (अर्यमा) न्यायशीलो भवान् (बर्हिषि) हृदयासने (आसीदतु) उपविशतु ॥ अथ द्वितीयः—राजपरः। हे (श्रुत्कर्ण) श्रुतौ बहुश्रुतौ कर्णौ यस्य तादृश राजनीतिशास्त्रवेतः (अग्ने) विद्याप्रकाशयुक्त राजन् ! त्वम् (वह्निभिः) राज्यभारवहनसमर्थैः (सयावभिः) सह यान्ति ये तैः (देवैः) विद्वद्भिः अमात्यादिभिः राजपुरुषैः सह (श्रुधि) अस्मन्निवेदनं शृणु। (अध्वरे) राष्ट्रयज्ञे (प्रातर्यावभिः) ये प्रजायाः सुखदुःखादिकं श्रोतुं प्रातः सभां यान्ति तैः राज्याधिकारिभिः सह (मित्रः) मित्रवदाचरन् राजसचिवः (अर्यमा) यः अर्यान् श्रेष्ठान् मानयति अश्रेष्ठाँश्च दण्डयति स न्यायाधीशश्च (बर्हिषि) राज्यासने (आसीदतु) उपविशतु ॥६॥३ अत्र श्लेषालङ्कारः ॥६॥
Essence
उपासकैः पवित्रभावप्रेरके प्रभातकाले य उपासनायज्ञः क्रियते तस्मिन् परमात्मना सह शमदमतपःस्वाध्यायदानदयान्यायप्रभृतयो विविधा गुणा अपि हृदये प्रादुर्भवन्ति। तस्मिन् कालेऽनुभूतः परमात्मा सद्गुणगणश्च स्थिररूपेण हृदि धारणीयः। किञ्च, प्रजापालको राजा योग्यानमात्यन्यायाधीशादीन् राज्यवहनसमर्थान् राजपुरुषान् नियुज्य तैः सह प्रजायाः सर्वाणि कष्टानि श्रुत्वा तन्निवारणं कुर्यात् ॥६॥
Subject
अथ परमात्मानं राजानं च प्रार्थ्यते।
Footnote
१. ऋ० १।४४।१३, य० ३३।१५। उभयत्र आसीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम् इति पाठः। २. त्वया सह ये यान्ति ते सयावानः तैः सयावभिः सहगामि- भिरित्यर्थः—इति वि०। ३. दयानन्दर्षिणा ऋग्वेदे यजुर्वेदे चायं मन्त्रः क्रमेण विद्वत्परो राजपरश्च व्याख्यातः। एष तावद् यजुर्भाष्ये तत्कृतो भावार्थः—सभापतिना राज्ञा सुपरीक्षितानमात्यान् स्वीकृत्य तैः सह सदसि स्थित्वा विवदमानवचांसि श्रुत्वा समीक्ष्य यथार्थो न्यायः कर्तव्य इति।