Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 5

1875 Mantra
Devata- अग्निः Rishi- उशना काव्यः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
प्रे꣡ष्ठं꣢ वो꣣ अ꣡ति꣢थिꣳ स्तु꣣षे꣢ मि꣣त्र꣡मि꣢व प्रि꣣य꣢म् । अ꣢ग्ने꣣ र꣢थं꣣ न꣡ वेद्य꣢꣯म् ॥५॥

प्रे꣡ष्ठ꣢꣯म् । वः꣣ । अ꣡ति꣢꣯थिम् । स्तु꣣षे꣢ । मि꣣त्र꣢म् । मि꣣ । त्र꣢म् । इ꣣व । प्रिय꣢म् । अ꣡ग्ने꣢꣯ । र꣡थ꣢꣯म् । न । वे꣡द्य꣢꣯म् ॥५॥

Mantra without Swara
प्रेष्ठं वो अतिथिꣳ स्तुषे मित्रमिव प्रियम् । अग्ने रथं न वेद्यम् ॥

प्रेष्ठम् । वः । अतिथिम् । स्तुषे । मित्रम् । मि । त्रम् । इव । प्रियम् । अग्ने । रथम् । न । वेद्यम् ॥५॥

Samveda - Mantra Number : 5
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अग्रणीः परमात्मन् ! (प्रेष्ठम्) प्रियतमम्। प्रियशब्दाद् इष्ठनि प्रियस्थिर० अ० ६।४।१५७ इति प्रियस्य प्रादेशः। (अतिथिम्) अभ्यागतरूपम् (मित्रम् इव) सुहृदमिव (प्रियम्) प्रेमास्पदम्, (रथं न) यानमिव। अत्र न इत्युपमार्थीयः। यथाह निरुक्तकारः— उपरिष्टादुपचारस्तस्य येनोपमिमीते इति। निरु० १।४। (वेद्यम्२) प्राप्यम्। विद्लृ लाभे इति धातोर्ण्यत् प्रत्ययः। (वः३) त्वाम्। अहम् (स्तुषे) स्तौमि। ष्टुञ् स्तुतौ इत्यस्माल्लेटि सिब्बहुलं लेटि अ० ३।१।३४ इति सिपि उत्तमैकवचने रूपम् ॥५॥ अत्र मित्रमिव प्रियम्, रथं न वेद्यम् इत्युभयत्रोपमालङ्कारः। अग्नौ अतिथित्वारोपाच्च रूपकम् ॥५॥
Essence
सुहृद् यथा सर्वेषां प्रियो भवति, तथोपासकानां परमात्मा प्रियः। किञ्च, रथो यथा गन्तव्यस्थानं गन्तुं लब्धव्यो भवति, तथैव परमात्मा प्रेयोमार्गस्य श्रेयोमार्गस्य च लक्ष्यम् ऐहिकपारलौकिकोत्कर्षम् अधिगन्तुं सर्वैः प्राप्तव्यः स्तोतव्यश्च। अपिच, हृत्प्रदेशे विद्यमानः परमात्मा साक्षाद् गेहं समायातः प्रेष्ठोऽतिथिरेव। अतः सोऽतिथिवत् सत्करणीयः ॥५॥
Subject
तं परमात्मानमहं स्तौमीत्याह।
Footnote
१. ऋ० ८।८४।१ अग्ने इत्यस्य स्थाने अग्निं इति पाठः। साम० १२४४। २. कीदृशम् अग्निम्? उच्यते। वेद्यं वेदनार्हम्, ज्ञानार्हमित्यर्थः इति विवरणकारः। रथमिव वेद्यं लम्भनीयम् इति भरतस्वामी। वेद्यम्। वेदो धनं, धनहितं लाभहेतुं, यथा धनेन रथं लभते तद्वत् स्तोतारोऽनेन धनं लभन्ते, तादृशधनलाभकारणम् इति सा०। ३. ‘बहुवचनमिदमेकवचनस्य स्थाने द्रष्टव्यम् इति वि०। वः इति वचनव्यत्ययः, त्वामित्यर्थः इति भ०। वः त्वाम्, पूजार्थे बहुवचनम् इति सा०। यद्यपि बहुवचनस्य वस्नसौ। अ० ८।१।२१ इत्युक्तम्, तथापि छन्दसि एकवचनस्यापि भवतः, बहुत्र तथा प्रयोगदर्शनात्।