Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 499

1875 Mantra
Devata- पवमानः सोमः Rishi- उचथ्य आङ्गिरसः Chhand- गायत्री Swara- षड्जः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣡ध्व꣢र्यो꣣ अ꣡द्रि꣢भिः सु꣣त꣡ꣳ सोमं꣢꣯ प꣣वि꣢त्र꣣ आ꣡ न꣢य । पु꣣नाही꣡न्द्रा꣢य꣣ पा꣡त꣢वे ॥४९९॥

अ꣡ध्व꣢꣯र्यो । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । सुत꣢म् । सो꣡म꣢꣯म् । प꣣वि꣡त्रे꣢ । आ । न꣣य । पुनाहि꣢ । इ꣡न्द्रा꣢꣯य । पा꣡त꣢꣯वे ॥४९९॥

Mantra without Swara
अध्वर्यो अद्रिभिः सुतꣳ सोमं पवित्र आ नय । पुनाहीन्द्राय पातवे ॥

अध्वर्यो । अद्रिभिः । अ । द्रिभिः । सुतम् । सोमम् । पवित्रे । आ । नय । पुनाहि । इन्द्राय । पातवे ॥४९९॥

Samveda - Mantra Number : 499
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अध्वर्यो) य़ज्ञविधिनिष्पादकोऽध्वर्युरिव ज्ञानयज्ञस्य निष्पादक मानव ! त्वम् (अद्रिभिः) अभिषवणपाषाणैरिव ज्ञानेन्द्रियैः (सुतम्) अभिषुतम् (सोमम्) सोमौषधिरसमिव ज्ञानरसम् (पवित्रे) दशापवित्रे इव मनसि (आनय) आदत्स्व, तं ज्ञानरूपं सोमरसम् (इन्द्राय पातवे) जीवात्मनः पानाय (पुनाहि) पुनीहि, मननद्वारा शोधय। अत्र ‘वा छन्दसि।’ अ० ६।४।८८ इति हेरपित्त्वविकल्पनाद् अपित्त्वाभावे ङिद्वत्त्वस्याप्यभावाद् ईत्वं न भवति ॥३॥२ अत्र श्लेषेणाभिहितो भौतिकसोमपरो द्वितीयोऽर्थ उपमानत्वे पर्यवस्यति ॥३॥
Essence
यथा यज्ञे पेषणसाधनैः पाषाणैरभिषुतः सोमो दशापवित्रद्वारा संशोध्यैव पीयते पाय्यते च तथैव ज्ञानार्जनसाधनैर्ज्ञानेन्द्रियैरर्जितं ज्ञानं मनसा मननद्वारा संशोधनीयम् ॥३॥
Subject
अथाध्वर्युं प्रेरयति।
Footnote
१. ऋ० ९।५१।१ ‘आ सृज’, ‘पुनीहीन्द्राय’ इति पाठः। य० २०।३१ देवता इन्द्रः, ऋषिः प्रजापतिः, ‘पुनीहीन्द्राय’ इति पाठः। २. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सोमवल्ल्याद्योषधिसारविषये व्याख्यातवान्। तथा हि तत्र तत्कृतो भावार्थः—“वैद्यराजैः शुद्धदेशोत्पन्नौषधिसारान् निर्मायैतद्दानेन सर्वेषां रोगनिवृत्तिः सततं कार्या” इति।