Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 498

1875 Mantra
Devata- पवमानः सोमः Rishi- भृगुर्वारुणिर्जमदग्निर्भार्गवो वा Chhand- गायत्री Swara- षड्जः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
आ꣢ ते꣣ द꣡क्षं꣢ मयो꣣भु꣢वं꣣ व꣡ह्नि꣢म꣣द्या꣡ वृ꣢णीमहे । पा꣢न्त꣣मा꣡ पु꣢रु꣣स्पृ꣡ह꣢म् ॥४९८॥

आ꣢ । ते꣣ । द꣡क्ष꣢꣯म् । म꣣योभु꣡व꣢म् । म꣣यः । भु꣡व꣢꣯म् । व꣡ह्नि꣢꣯म् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । वृ꣣णीमहे । पा꣡न्त꣢꣯म् । आ । पु꣣रुस्पृ꣡ह꣢म् । पु꣣रु । स्पृ꣡ह꣢꣯म् ॥४९८॥

Mantra without Swara
आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे । पान्तमा पुरुस्पृहम् ॥

आ । ते । दक्षम् । मयोभुवम् । मयः । भुवम् । वह्निम् । अद्य । अ । द्य । वृणीमहे । पान्तम् । आ । पुरुस्पृहम् । पुरु । स्पृहम् ॥४९८॥

Samveda - Mantra Number : 498
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे पवमान सोम ! पवित्रतादायक आनन्दरसमय परमात्मन् ! वयम् (ते) तव (मयोभुवम्) सुखदायकम्, (वह्निम्) लक्ष्यं प्रति वाहकम्, (पान्तम्) रक्षकम्, (पुरुस्पृहम्) बहु स्पृहणीयम् (दक्षम्) बलम्। दक्ष इति बलनाम। निघं० २।९। (अद्य) अस्मिन् दिने। संहितायां निपातत्वाद् दीर्घश्छान्दसः। (आ वृणीमहे) स्वीकुर्महे ॥२॥
Essence
परमात्मनः सकाशाद् यद् बलं शुभकर्मसूत्साहश्च प्राप्यते, तेन सुखं लक्ष्यपूर्ती रक्षा च वर्धते ॥२॥
Subject
अथ सोमं परमात्मानं बलं प्रार्थयते।
Footnote
१. ऋ० ९।६५।२८, ऋषिः भृगुर्वारुणिर्जमदग्निर्वा। साम० ११३७।