Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 497

1875 Mantra
Devata- पवमानः सोमः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣡चि꣢क्रद꣣द्वृ꣢षा꣣ ह꣡रि꣢र्म꣣हा꣢न्मि꣣त्रो꣡ न द꣢꣯र्श꣣तः꣢ । स꣡ꣳ सूर्ये꣢꣯ण दिद्युते ॥४९७॥

अ꣡चि꣢꣯क्रदत् । वृ꣡षा꣢꣯ । ह꣡रिः꣢꣯ । म꣣हा꣢न् । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । न । द꣣र्शतः꣢ । सम् । सू꣡र्ये꣢꣯ण । दि꣣द्युते ॥४९७॥

Mantra without Swara
अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः । सꣳ सूर्येण दिद्युते ॥

अचिक्रदत् । वृषा । हरिः । महान् । मित्रः । मि । त्रः । न । दर्शतः । सम् । सूर्येण । दिद्युते ॥४९७॥

Samveda - Mantra Number : 497
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वृषा) कामवर्षकः (हरिः) पापहर्ता सोमः परमेश्वरः, सर्वेषां हृदि स्थितः सन् (अचिक्रदत्) शब्दायते, उपदिशति, सत्प्रेरणां करोति। क्रदि आह्वाने रोदने च, क्रद इत्येके, स्वार्थे णिचि, लुङि रूपम्। (महान्) महत्त्वोपेतः सः (मित्रः न) सुहृदिव (दर्शतः) दर्शनीयः अस्ति। स एव (सूर्येण) आदित्येन (सम्) संगतः सन् (दिद्युते) प्रकाशते, ‘यो॒ऽसावा॑दि॒त्ये पुरु॑षः॒ सो᳕ऽसाव॒हम्’ य० ४०।१७ इति श्रुतेः ॥१॥२ ‘अचिक्रदद् वृषा’ इत्यत्र शब्दशक्तिमूलेन ध्वनिना ‘वर्षकः पर्जन्यो गर्जति’ इति द्वितीयेऽप्यर्थे द्योतिते सति पर्जन्यसोमयोरुपमानोपमेयभावो व्यज्यते, तेनोपमाध्वनिः। ‘मित्रो न दर्शतः’ इत्यत्र च वाच्या पूर्णोपमा ॥१॥
Essence
ये सूक्ष्मदर्शिनः सन्ति ते सूर्यपर्जन्यादौ परमेश्वरमेव साक्षात्कुर्वते, यतस्तत्र सर्वा तापप्रकाशजलवर्षणादिशक्तिस्तत्प्रदत्तैवास्ते ॥१॥
Subject
तत्रादौ सोमस्य परमात्मनो महिमानमाह।
Footnote
१. ऋ० ९।२।६, य० ३८।२२ ऋषिः दीर्घतमाः, ‘सं सूर्येण दिद्युतदुदधिर्निधिः’ इति पाठः, परोष्णिक् छन्दः। साम० १०४२। २. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्युदग्निपक्षे व्याख्यातवान्।