Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 495

1875 Mantra
Devata- पवमानः सोमः Rishi- अहमीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣣या꣢ वी꣣ती꣡ परि꣢꣯ स्रव꣣ य꣡स्त꣢ इन्दो꣣ म꣢दे꣣ष्वा꣢ । अ꣣वा꣡ह꣢न्नव꣣ती꣡र्नव꣢꣯ ॥४९५॥

अ꣣या꣢ । वी꣣ती꣢ । प꣡रि꣢꣯ । स्र꣣व । यः꣢ । ते꣣ । इन्दो । म꣡दे꣢꣯षु । आ । अ꣣वा꣡ह꣢न् । अ꣣व । अ꣡ह꣢꣯न् । न꣣वतीः꣢ । न꣡व꣢꣯ ॥४९५॥

Mantra without Swara
अया वीती परि स्रव यस्त इन्दो मदेष्वा । अवाहन्नवतीर्नव ॥

अया । वीती । परि । स्रव । यः । ते । इन्दो । मदेषु । आ । अवाहन् । अव । अहन् । नवतीः । नव ॥४९५॥

Samveda - Mantra Number : 495
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) आनन्दरसस्य वीररसस्य वा अगारभूत परमात्मन् ! त्वम् (अया वीती) अनया रीत्या। वी गत्यादिषु, भावे क्तिन्। तृतीयैकवचने ‘सुपां सुलुक्’ इति पूर्वसवर्णदीर्घः। (परिस्रव) उपासकानाम् अन्तःकरणे परिस्यन्द, यथा (यः) उपासकः (ते मदेषु) त्वज्जनितेषु हर्षेषु (आ) आ भवेत् सः (नव नवतीः) वृत्राणां नवनवतिम् (अवाहन्) अवहन्यात्। अत्र लिङर्थे लङ्। शतायुर्वै पुरुषः। तस्य नव मासा दश मासा वा गर्भे व्यतीयन्ते। एवं प्रायेण नवनवतिवर्षाणि स जीवति। तेषु नवनवतिवर्षेषु जायमाना ये विघ्नास्ते नवनवतिर्वृत्राण्युच्यन्ते। तानि मनुष्यः सोमस्य मदे हन्यादिति भावः ॥९॥
Essence
परमेश्वरात् प्रस्रुत आनन्दरसो वीररसो वा स्तोतारं तथा मादयति यथा स जीवने समागच्छतः सर्वानेव विघ्नान् शत्रून् वा हन्तुं प्रभवति ॥९॥
Subject
अथ सोमरसेन तृप्तो जनः किं कुर्यादित्याह।
Footnote
१. ऋ० ९।६१।१, साम० १२१०।