Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 492

1875 Mantra
Devata- पवमानः सोमः Rishi- निध्रुविः काश्यपः Chhand- गायत्री Swara- षड्जः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣣पघ्न꣡न्प꣢वसे꣣ मृ꣡धः꣢ क्रतु꣣वि꣡त्सो꣢म मत्स꣣रः꣢ । नु꣣द꣡स्वादे꣢꣯वयुं꣣ ज꣡न꣢म् ॥४९२॥

अ꣣पघ्न꣢न् । अ꣣प । घ्न꣢न् । प꣣वसे । मृ꣡धः꣢꣯ । क्र꣣तुवि꣢त् । क्र꣣तु । वि꣢त् । सो꣣म । मत्सरः꣢ । नु꣣द꣡स्व꣢ । अ꣡दे꣢꣯वयुम् । अ । दे꣣वयुम् । ज꣡न꣢꣯म् ॥४९२॥

Mantra without Swara
अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः । नुदस्वादेवयुं जनम् ॥

अपघ्नन् । अप । घ्नन् । पवसे । मृधः । क्रतुवित् । क्रतु । वित् । सोम । मत्सरः । नुदस्व । अदेवयुम् । अ । देवयुम् । जनम् ॥४९२॥

Samveda - Mantra Number : 492
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) आनन्दरसागार परमेश्वर ! त्वम् (मृधः) संग्रामकारिणः कामक्रोधादीन् रिपून् (अपघ्नन्) हिंसन् (पवसे) अस्मान् पुनासि। (क्रतुवित्) प्रज्ञाकर्मलम्भकः, (मत्सरः) आनन्दस्य वाहकः त्वम् (अदेवयुम्) देवान् दिव्यगुणान् आत्मनः कामयते इति देवयुः, न देवयुः अदेवयुः, तम् (जनम्) मनुष्यम् (नुदस्व) दिव्यगुणान् प्राप्तुं प्रेरय, तं देवयुं कुरु इत्यर्थः ॥६॥
Essence
आनन्दरसनिधेः परमेश्वरस्य सत्प्रेरणया अपावना अपि पावनाः, अदिव्या अपि दिव्यगुणा भवन्ति ॥६॥
Subject
अथ सोमः परमात्मा प्रार्थ्यते।
Footnote
१. ऋ० ९।६३।२४, साम० १२३७।