Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 491

1875 Mantra
Devata- पवमानः सोमः Rishi- मेध्यातिथिः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
प्र꣢꣫ यद्गावो꣣ न꣡ भूर्ण꣢꣯यस्त्वे꣣षा꣢ अ꣣या꣢सो꣣ अ꣡क्र꣢मुः । घ्न꣡न्तः꣢ कृ꣣ष्णा꣢꣫मप꣣ त्व꣡च꣢म् ॥४९१॥

प्र꣢ । यत् । गा꣡वः꣢꣯ । न । भू꣡र्ण꣢꣯यः । त्वे꣣षाः꣢ । अ꣣या꣡सः꣢ । अ꣡क्र꣢꣯मुः । घ्न꣡न्तः꣢꣯ । कृ꣣ष्ण꣢म् । अ꣡प꣢꣯ । त्व꣡च꣢꣯म् । ॥४९१॥

Mantra without Swara
प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः । घ्नन्तः कृष्णामप त्वचम् ॥

प्र । यत् । गावः । न । भूर्णयः । त्वेषाः । अयासः । अक्रमुः । घ्नन्तः । कृष्णम् । अप । त्वचम् । ॥४९१॥

Samveda - Mantra Number : 491
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यत्) यदा (गावः न) सूर्यकिरणाः इव (भूर्णयः) धारणपोषणकराः। डुभृञ् धारणपोषणयोः। बिभर्तीति भूर्णिः, ‘घृणिपृश्निपार्ष्णिचूर्णिभूर्णयः।’ उ० ४।५३ इति निः प्रत्ययः। धातोरूत्वम्। (त्वेषाः) दीप्ताः। त्विष दीप्तौ, भ्वादिः। (अयासः) गमनशीलाः सोमाः आनन्दरसाः। अयन्ते गच्छन्तीति अयाः, जसोऽसुगागमः। (प्र अक्रमुः) पराक्रमन्ते, तदा (त्वचम्) संवरणकरीम्। त्वच संवरणे, तुदादिः। (कृष्णाम्) तमोगुणमयीं रात्रिम्। ‘कृष्णा कृष्णवर्णा रात्रिः’ इति निरुक्तम् २।२०। (घ्नन्तः) ध्वसंयन्तो, भवन्तीति शेषः ॥५॥ अत्रोपमालङ्कारः ॥५॥
Essence
ब्रह्मानन्दरसान् यदा योगिनो जनाः पिबन्ति तदा सर्वा अपि मोहनिशास्तेषां मार्गादपयन्ति ॥५॥
Subject
अथ परमात्मनः प्राप्ता आनन्दरसाः किं कुर्वन्तीत्याह।
Footnote
१. ऋ० ९।४१।१, ‘यद्’ इत्यत्र ‘ये’ इति पाठः। साम० ८९२।