Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 490

1875 Mantra
Devata- पवमानः सोमः Rishi- प्रभूवसुराङ्गिरसः Chhand- गायत्री Swara- षड्जः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣡स꣢र्जि꣣ र꣢थ्यो꣣ य꣡था꣢ प꣣वि꣡त्रे꣢ च꣣꣬म्वोः꣢꣯ सु꣣तः꣢ । का꣡र्ष्म꣢न्वा꣣जी꣡ न्य꣢क्रमीत् ॥४९०॥

अ꣡स꣢꣯र्जि । र꣡थ्यः꣢꣯ । य꣡था꣢꣯ । प꣣वि꣡त्रे꣢ । च꣣म्वोः꣢꣯ । सु꣣तः꣢ । का꣡र्ष्म꣢꣯न् । वा꣣जी꣢ । नि । अ꣣क्रमीत् ॥४९०॥

Mantra without Swara
असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः । कार्ष्मन्वाजी न्यक्रमीत् ॥

असर्जि । रथ्यः । यथा । पवित्रे । चम्वोः । सुतः । कार्ष्मन् । वाजी । नि । अक्रमीत् ॥४९०॥

Samveda - Mantra Number : 490
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(चम्वोः) आत्मबुद्धिरूपयोः अधिषवणफलकयोः (सुतः) अभिषुतः, ध्यानेन प्रकटीकृतः सोमः रसनिधिः परमेश्वरः (पवित्रे) दशापवित्रे इव पवित्रे हृदये (असर्जि) विसृष्टोऽस्ति, (रथ्यः यथा) येन प्रकारेण रथनियुक्तः अश्वः मार्गे विसृज्यते तद्वत्। तेन (वाजी) बलवान् सन् उपासकः (कार्ष्मन्) योगमार्गे। कृष्यते विलिख्यते पादाघातैः इति कार्ष्मा मार्गः तस्मिन्। अत्र सप्तम्या लुक्। (न्यक्रमीत्) निक्रमते, योगविघ्नान् उल्लङ्घयते, यथा (वाजी) बलवान् सेनापतिः (कार्ष्मन्) संग्रामे। कृषतः अन्योन्यं विलिखतः उभे सेने यत्र स कार्ष्मा रणः तस्मिन्। (न्यक्रमीत्) शत्रुसेनाः पराजयते ॥४॥ अत्र पूर्वार्द्धे श्रौती उपमा, उत्तरार्द्धे च श्लेषमूला लुप्तोपमा ॥४॥
Essence
यदा हृदये सोमः परमात्माऽवतरति तदा मनुष्यः सर्वा अपि विघ्नबाधाः क्षणेनैव पराजयते ॥४॥
Subject
अथ परमेश्वराराधनेन स्तोता कीदृशं बलं प्राप्नोतीत्याह।
Footnote
१. ऋ० ९।३६।१।