Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 49

1875 Mantra
Devata- अग्निः Rishi- सुदीतिपुरुमीढावाङ्गिरसौ तयोर्वान्यतरः Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
अ꣣ग्नि꣡मी꣢डि꣣ष्वा꣡व꣢से꣣ गा꣡था꣢भिः शी꣣र꣡शो꣢चिषम् । अ꣣ग्नि꣢ꣳ रा꣣ये꣡ पु꣢रुमीढ श्रु꣣तं꣢꣫ नरो꣣ऽग्निः꣡ सु꣢दी꣣त꣡ये꣢ छ꣣र्दिः꣢ ॥४९॥

अ꣣ग्नि꣢म् । ई꣣डिष्व । अ꣡व꣢꣯से । गा꣡था꣢꣯भिः । शी꣣र꣡शो꣢चिषम् । शी꣣र꣢ । शो꣣चिषम् । अग्नि꣢म् । रा꣣ये꣢ । पु꣣रुमीढ । पुरु । मीढ । श्रुत꣢म् । न꣡रः꣢꣯ । अ꣣ग्निः꣢ । सु꣣दीत꣡ये꣢ । सु꣣ । दीत꣡ये꣢ । छ꣣र्दिः꣢ ॥४९॥

Mantra without Swara
अग्निमीडिष्वावसे गाथाभिः शीरशोचिषम् । अग्निꣳ राये पुरुमीढ श्रुतं नरोऽग्निः सुदीतये छर्दिः ॥

अग्निम् । ईडिष्व । अवसे । गाथाभिः । शीरशोचिषम् । शीर । शोचिषम् । अग्निम् । राये । पुरुमीढ । पुरु । मीढ । श्रुतम् । नरः । अग्निः । सुदीतये । सु । दीतये । छर्दिः ॥४९॥

Samveda - Mantra Number : 49
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पुरुमीढ) पुरुभिः बहुभिः गुणैः सिक्त स्तोतः२। पुरु बहुनाम। निघं० ३।१। मिह सेचने क्तः। त्वम् (अवसे) रक्षणाय, प्रगतये, सर्वजनप्रीतये, परमतृप्तिलाभाय वा। रक्षणगतिकान्तिप्रीतितृप्त्या- द्यर्थाद् अव धातोः तुमर्थे असेन् प्रत्ययः। (शीरशोचिषम्३) शीरं सर्वत्र व्याप्तं शोचिः ज्योतिर्यस्य तम्। (शीरम्) अनुशायिनमिति वाऽऽशिनमिति वा। निरु० ४।१४। शीङ् स्वप्ने, स्फायितञ्चिवञ्चि०’ उ० २।१३ इति रक् प्रत्ययः। (अग्निम्) तेजोमयं परमात्मानम् (गाथाभिः) मन्त्रवाग्भिः। गाथा वाङ्नाम। निघं० १।११। (ईडिष्व) स्तुहि, आराध्नुहि (श्रुतम्) तन्महिमवर्णनपरेभ्यो वेदादिशास्त्रेभ्यः कर्णगोचरतां नीतम् (अग्निम्) तं परमात्मानम्, त्वम् (राये) भौतिकाध्यात्मिकसर्वविधधनानां प्राप्तये (ईडिष्व) स्तुहि, आराध्नुहि। हे (नरः) पौरुषसम्पन्नाः जनाः ! (अग्निः) जगन्नायकः परमात्मा (सुदीतये४) शोभना दीप्तिः गतिः क्रिया यस्य तस्मै पुरुषार्थिने जनाय। दीयतिः गतिकर्मा। निघं० २।१४। बहुव्रीहौ नञ्सुभ्याम्।’ अ० ६।३।१७२ इत्युत्तरपदस्यान्तोदात्तत्वम्। (छर्दिः) शरणं भवति। छर्दिः गृहनाम। निघं० ३।४ ॥५॥
Essence
धनाद्यशेषकल्याणप्राप्तये जनैः पुरुषार्थिभिर्भूत्वा सर्वत्र व्याप्तकान्तिः परमगुरुः परमात्मा भजनीयः ॥५॥
Subject
अथ किमर्थं जनैः परमात्मा स्तोतव्य इत्युच्यते।
Footnote
१. ऋ० ८।७१।१४, अ० २०।१०३।१। उभयत्र नरोऽग्निं इति पाठः। २. एष पदार्थः ऋ० १।१५१।२ इत्यस्य दयानन्दभाष्याद् गृहीतः। ३. शीरं व्यापि शोचिर्दीप्तिः। व्यापिनी दीप्तिर्यस्यासौ शीरशोचिः, तं शीरशोचिषम्, व्यापिदीप्तिमित्यर्थः। अथवा जठरात्मना आश्रयणीया दीप्तिर्यस्य—इति वि०। श्रयतेः शीरम्, शोचिः दीप्तिः। प्रवृद्ध- शोचिषम्—इति भ०। शयनस्वभावरोचिषम्—इति सा०। ४. सुदीतये शोभनस्य दानस्यार्थाय—इति वि०। एतन्मते केवलं पुरुमीढस्यार्षं, न सुदीतेरपि, अतस्तेन यौगिकार्थो निरूपितः अन्तरात्मनः प्रैषः, हे मदीय अन्तरात्मन् ! अग्निम् ईडिष्व स्तुहीत्यर्थः इति पुरुमीढो ब्रूते, इति तदीयः आशयः। अन्येषां मते सुदीतिपुरुमीढयोरुभयोरार्षम्, अतस्तैः सुदीतये एतत्संज्ञाय ऋषये इति व्याख्यातम्। वस्तुतस्तु मन्त्रागतौ सुदीतिपुरुमीढौ यौगिकार्थमेव सूचयतः।