Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 488

1875 Mantra
Devata- पवमानः सोमः Rishi- बृहन्मतिराङ्गिरसः Chhand- गायत्री Swara- षड्जः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
पु꣣नानो꣡ अ꣢क्रमीद꣣भि꣢꣫ विश्वा꣣ मृ꣢धो꣣ वि꣡च꣢र्षणिः । शु꣣म्भ꣢न्ति꣣ वि꣡प्रं꣢ धी꣣ति꣡भिः꣢ ॥४८८॥

पु꣣नानः꣢ । अ꣣क्रमीत् । अभि꣢ । वि꣡श्वाः꣢꣯ । मृ꣡धः꣢꣯ । वि꣡च꣢꣯र्षणिः । वि । च꣣र्षणिः । शुम्भ꣡न्ति꣢ । वि꣡प्र꣢꣯म् । वि । प्र꣢꣯म् । धीति꣡भिः ॥४८८॥

Mantra without Swara
पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः । शुम्भन्ति विप्रं धीतिभिः ॥

पुनानः । अक्रमीत् । अभि । विश्वाः । मृधः । विचर्षणिः । वि । चर्षणिः । शुम्भन्ति । विप्रम् । वि । प्रम् । धीतिभिः ॥४८८॥

Samveda - Mantra Number : 488
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पुनानः) उपासकानां मनः पवित्रं कुर्वन्, (विचर्षणिः) सर्वद्रष्टा सोमः परमेश्वरः। विचर्षणिः इति पश्यतिकर्मसु पठितम्। निघं० ३।११। (विश्वाः मृधः) कामक्रोधादीनां सर्वाः सङ्ग्रामकारिणीः सेनाः, निखिला हिंसावृत्तीर्वा (अभि अक्रमीत्) अभ्याक्रामति। तम् (विप्रम्) मेधाविनं परमेशम्, उपासकाः (धीतिभिः) ध्यानैः (शुम्भन्ति२) स्वहृदयाभ्यन्तरे शोभयन्ति। शुम्भ शोभार्थे, तुदादिः ॥२॥
Essence
ध्यातः परमेश्वरः साधकस्य मार्गे विघ्नभूताः सर्वा आसुरीः सेनाः पराजित्य चित्तं पवित्रयति ॥२॥
Subject
अथ सोमं परमात्मानं वर्णयति।
Footnote
१. ऋ० ९।४०।१, साम–० ९२४। २. शुम्भन्ति शोभन्ति अलङ्कुर्वन्ति—इति वि०। दीपयन्ति—इति भ–०।