Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 486

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
प꣢रि꣣ प्रा꣡सि꣢ष्यदत्क꣣विः꣡ सिन्धो꣢꣯रू꣣र्मा꣡वधि꣢꣯ श्रि꣣तः꣢ । का꣣रुं꣡ बिभ्र꣢꣯त्पुरु꣣स्पृ꣡ह꣢म् ॥४८६॥

प꣡रि꣢꣯ । प्र । अ꣣सिष्यदत् । कविः꣢ । सि꣡न्धोः꣢꣯ । ऊ꣣र्मौ꣢ । अधि꣢꣯ । श्रि꣣तः꣢ । का꣣रु꣢म् । बि꣡भ्र꣢꣯त् । पु꣣रुस्पृ꣡ह꣢म् । पुरु । स्पृ꣡ह꣢꣯म् ॥४८६॥

Mantra without Swara
परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः । कारुं बिभ्रत्पुरुस्पृहम् ॥

परि । प्र । असिष्यदत् । कविः । सिन्धोः । ऊर्मौ । अधि । श्रितः । कारुम् । बिभ्रत् । पुरुस्पृहम् । पुरु । स्पृहम् ॥४८६॥

Samveda - Mantra Number : 486
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(कविः) वेदकाव्यस्य कर्ता, काव्यानन्दतरङ्गितहृदयः सोमः परमेश्वरः (सिन्धोः) आनन्दसागरस्य (ऊर्मौ) तरङ्गे (अधिश्रितः) अधिष्ठितः सन् (पुरुस्पृहम्) बहुस्पृहणीयम् (कारुम्) स्तुतिकर्तारम् जीवम्। कारुरिति स्तोतृनाम। निघं० ३।१६। कारुः कर्ता स्तोमानाम्। निरु० ६।५। (बिभ्रत्) धारयन् (परि प्रासिष्यदत्) आनन्दलहरीषु दोलारोहणम् अनुभवति ॥१०॥ अत्र वस्तुतः परमात्मनो दोलादिसम्बन्धाभावाद् असम्बन्धे सम्बन्धरूपोऽतिशयोक्तिरलङ्कारः ॥१०॥
Essence
सच्चिदानन्दस्वरूपो रसमयः परमेश्वरः स्वसहचरं जीवात्मानं मां हस्ताभ्यामिव धारयन्नानन्दोदधेस्तरङ्गेषु दोलायते। अहो, तेन सह कीदृक् अननुभूतपूर्वम् अवर्णनीयं सुखं मयाऽनुभूयते। सत्यं, कृतकृत्योऽस्मि। लब्धं मया जीवनस्य साफल्यम् ॥१०॥ अत्रापि रसागारस्य सोमस्य परमेश्वरस्य तज्जनितानन्दरसस्य च वर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन संगतिरस्तीति विदाङ्कुर्वन्तु ॥ इति पञ्चमे प्रपाठके द्वितीयार्धे पञ्चमी दशतिः। समाप्तोऽयं पञ्चमः प्रपाठकः ॥ इति पञ्चमेऽध्याये द्वितीयः खण्डः।
Subject
अथ सोमेन परमात्मना सह तरङ्गदोलारोहणं वर्ण्यते।
Footnote
१. ऋ० ९।१४।१, ‘कारुं’ इत्यत्र ‘कारं’ इति पाठः।