Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 484

1875 Mantra
Devata- पवमानः सोमः Rishi- अहमीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
प꣡व꣢मानो अजीजनद्दि꣣व꣢श्चि꣣त्रं꣡ न त꣢꣯न्य꣣तु꣢म् । ज्यो꣡ति꣢र्वैश्वान꣣रं꣢ बृ꣣ह꣢त् ॥४८४॥

प꣡व꣢꣯मानः । अ꣣जीजनत् । दिवः꣢ । चि꣣त्र꣢म् । न । त꣣न्यतु꣢म् । ज्यो꣡तिः꣢ । वै꣣श्वानर꣢म् । वै꣣श्व । नर꣢म् । बृ꣣ह꣢त् ॥४८४॥

Mantra without Swara
पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् । ज्योतिर्वैश्वानरं बृहत् ॥

पवमानः । अजीजनत् । दिवः । चित्रम् । न । तन्यतुम् । ज्योतिः । वैश्वानरम् । वैश्व । नरम् । बृहत् ॥४८४॥

Samveda - Mantra Number : 484
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पवमानः) पवित्रतादायकः सोमः परमेश्वरः (दिवः) आकाशस्य (चित्रम्) चित्ररूपम् (तन्यतुम् न) विद्युतमिव (बृहत्) विस्तीर्णम् (वैश्वानरम्) विश्वनेतृत्वकारि। यद् विश्वं नृणाति नयति तद् वैश्वानरम्। (ज्योतिः) दिव्यं तेजः (अजीजनत्) जनयति ॥८॥ अत्रोपमालङ्कारः ॥८॥
Essence
ईश्वराराधनेन हृदि विद्युदिव अद्भुतं ज्योतिः परिस्फुरति, येन विवेकख्यातिं लभते जनः ॥८॥
Subject
अथ सोमाख्यात् परमात्मनः प्राप्तं ज्योतिर्वर्णयति।
Footnote
१. ऋ० ९।६१।१६। साम० ८८९।