Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 483

1875 Mantra
Devata- पवमानः सोमः Rishi- निध्रुविः काश्यपः Chhand- गायत्री Swara- षड्जः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
प꣡व꣢स्व दे꣣व꣡ आ꣢यु꣣ष꣡गिन्द्रं꣢꣯ गच्छतु ते꣣ म꣡दः꣢ । वा꣣यु꣡मा रो꣢꣯ह꣣ ध꣡र्म꣢णा ॥४८३॥

प꣡व꣢꣯स्व । दे꣣वः꣢ । आ꣣युष꣢क् । आ꣣यु । स꣢क् । इ꣡न्द्र꣢꣯म् । गच्छतु । ते । म꣡दः꣢꣯ । वा꣣युम् । आ । रो꣣ह । ध꣡र्म꣢꣯णा ॥४८३॥

Mantra without Swara
पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः । वायुमा रोह धर्मणा ॥

पवस्व । देवः । आयुषक् । आयु । सक् । इन्द्रम् । गच्छतु । ते । मदः । वायुम् । आ । रोह । धर्मणा ॥४८३॥

Samveda - Mantra Number : 483
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे पवमान सोम ! हे पवित्रतासम्पादक रसागार परब्रह्म ! (देवः) दिव्यगुणः त्वम् (आयुषक्२) आयुषु उपासकेषु मनुष्येषु सक्तं यथा स्यात् तथा। आयवः इति मनुष्यनाम। निघं० २।३, षच समवाये। (पवस्व) प्रस्रव, आनन्दरसं प्रवाहय। (ते मदः) त्वज्जनितः आनन्दरसः (इन्द्रम्) आत्मानम् (गच्छतु) प्राप्नोतु। त्वम् (धर्मणा) स्वकीयधारकबलेन (वायुम्) प्राणम् (आरोह) आरूढो भव, मदीयाः प्राणा अपि त्वत्तरङ्गेण तरङ्गिता भवेयुरिति भावः ॥७॥
Essence
परमात्मरूपात् सोमात् प्रस्रुत आनन्दरसस्तदैव प्रभावकारी जायते यदा स आत्मप्राणादीन् पूर्णतो व्याप्नोति ॥७॥
Subject
अथ परमात्मसोमः प्रार्थ्यते।
Footnote
१. ऋ० ९।६३।२२, ‘देवायुषगिन्द्रं’ इति पाठः। साम० १२३५। २. आयुषु मनुष्येषु सक्तः, मनुष्यैः सेव्यमानः इति वा—इति भ०। अनुषक्तं यथा भवति तथा—इति सा०। सत्यव्रतसामश्रमिणस्तु विवरणकारनाम्ना आहुः—“सचते रूपम्। आनुषक् आयुषक् इति शाखाभेदेन पठ्यते ‘आनुषगिति नामानुपूर्वस्य अनुषक्तो भवति’—इति वि०।” इति। परं मुद्रिते विवरणकारभाष्ये ‘आयुषक् सुजनमनाः’ इत्युपलभ्यते। ‘आयु-सक्’ इति पदपाठाद् भरतस्वामिव्याख्यानमेव समञ्जसं प्रतिभाति।