Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 482

1875 Mantra
Devata- पवमानः सोमः Rishi- कश्यपो मारीचः Chhand- गायत्री Swara- षड्जः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
अ꣡सृ꣢क्षत꣣ प्र꣢ वा꣣जि꣡नो꣢ ग꣣व्या꣡ सोमा꣢꣯सो अश्व꣣या꣢ । शु꣣क्रा꣡सो꣢ वीर꣣या꣡शवः꣢꣯ ॥४८२॥

अ꣡सृ꣢꣯क्षत । प्र । वा꣣जि꣡नः꣢ । ग꣣व्या꣢ । सो꣡मा꣢꣯सः । अ꣣श्वया꣢ । शु꣣क्रा꣡सः꣢ । वी꣣रया꣢ । आ꣣श꣡वः꣢ ॥४८२॥

Mantra without Swara
असृक्षत प्र वाजिनो गव्या सोमासो अश्वया । शुक्रासो वीरयाशवः ॥

असृक्षत । प्र । वाजिनः । गव्या । सोमासः । अश्वया । शुक्रासः । वीरया । आशवः ॥४८२॥

Samveda - Mantra Number : 482
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वाजिनः) सबलाः, (शुक्रासः) पवित्राः, (आशवः) वेगवन्तः (सोमासः) परमात्मभक्तिरसाः (गव्या) अन्तःप्रकाशप्राप्तीच्छया, (अश्वया) प्राणानामूर्ध्वप्रेरणेच्छया, (वीरया) वीरत्वप्राप्तीच्छया च (प्र असृक्षत) मया प्रकर्षेण सृज्यन्ते अभिषूयन्ते। सृज विसर्गे धातोः कर्मणि छान्दसं रूपम्। गव्या, अश्वया, वीरया इत्यत्र गो-अश्व-वीर- शब्देभ्यः आत्मन इच्छायां क्यच्, ‘अ प्रत्ययात्’ ३।३।१०२, इति अ प्रत्ययः, स्त्रियां टाबन्तस्य अश्वयया, गव्ययया, वीरयया इति प्राप्ते ‘सुपां सुलुगिति’ तृतीयाया लुक् ॥६॥
Essence
अन्तःकरणे भगवद्भक्तिरसप्रवाहेणान्तःप्रकाशस्फुरणं प्राणानामूर्ध्वारोहो दिव्यकर्मसु चोत्साहः प्रवर्तते ॥६॥
Subject
अथ भक्तिरसाभिषवस्य प्रयोजनमाह।
Footnote
१. ऋ० ९।६४।४, साम० १०३४।