Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 481

1875 Mantra
Devata- पवमानः सोमः Rishi- कश्यपो मारीचः Chhand- गायत्री Swara- षड्जः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
इ꣡न्दुः꣢ पविष्ट꣣ चे꣡त꣢नः प्रि꣣यः꣡ क꣢वी꣣नां꣢ म꣣तिः꣢ । सृ꣣ज꣡दश्व꣢꣯ꣳ र꣣थी꣡रि꣢व ॥४८१॥

इ꣡न्दुः꣢꣯ । प꣣विष्ट । चे꣡त꣢꣯नः । प्रि꣣यः꣢ । क꣣वीना꣢म् । म꣣तिः꣢ । सृ꣣ज꣢त् । अ꣡श्व꣢꣯म् । र꣣थीः꣢ । इ꣣व ॥४८१॥

Mantra without Swara
इन्दुः पविष्ट चेतनः प्रियः कवीनां मतिः । सृजदश्वꣳ रथीरिव ॥

इन्दुः । पविष्ट । चेतनः । प्रियः । कवीनाम् । मतिः । सृजत् । अश्वम् । रथीः । इव ॥४८१॥

Samveda - Mantra Number : 481
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(चेतनः) चेतयिता, (कवीनां प्रियः) मेधाविनां प्रेमपात्रभूतः, (मतिः) मन्ता (इन्दुः) चन्द्रवदाह्लादकः सोमलतावद् रसागारश्च परमेश्वरः (पविष्ट) अन्तःकरणं पुनाति। अत्र लोडर्थे लुङ्, अडभावश्छान्दसः। (अश्वम्) प्राणं च (सृजत्) ऊर्ध्वारोहणाय प्रेरयति। सृज विसर्गे, लेटि रूपम्। (रथीः इव) यथा सारथिः (अश्वम्) रथे नियुक्तं घोटकम् (सृजत्) गन्तुं प्रेरयति तद्वत् ॥५॥ अत्र श्लिष्टोपमालङ्कारः ॥५॥
Essence
समुपासितः परमात्मसोमो योगिनश्चित्तं पवित्रीकृत्य तस्य प्राणान् योगसिद्धीः प्राप्तुम् ऊर्ध्वारोहणाय प्रेरयति ॥५॥
Subject
अथ सोमस्य परमात्मनो गुणकर्माणि वर्णयति।
Footnote
१. ऋ० ९।६४।१०, ‘मतिः’ इत्यत्र ‘मती’ इति पाठः।