Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 48

1875 Mantra
Devata- अग्निः Rishi- मनुर्वैवस्वतः Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
अ꣣ग्नि꣢रु꣣क्थे꣢ पु꣣रो꣡हि꣢तो꣣ ग्रा꣡वा꣢णो ब꣣र्हि꣡र꣢ध्व꣣रे꣢ । ऋ꣣चा꣡ या꣢मि मरुतो ब्रह्मणस्पते꣣ दे꣢वा꣣ अ꣢वो꣣ व꣡रे꣢ण्यम् ॥४८॥

अ꣣ग्निः꣢ । उ꣣क्थे꣢ । पु꣣रो꣡हि꣢तः । पु꣣रः꣢ । हि꣣तः । ग्रा꣡वा꣢꣯णः । ब꣣र्हिः꣢ । अ꣣ध्वरे꣢ । ऋ꣣चा꣢ । या꣣मि । मरुतः । ब्रह्मणः । पते । दे꣡वाः꣢꣯ । अ꣡वः꣢꣯ । व꣡रे꣢꣯ण्यम् ॥४८॥

Mantra without Swara
अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे । ऋचा यामि मरुतो ब्रह्मणस्पते देवा अवो वरेण्यम् ॥

अग्निः । उक्थे । पुरोहितः । पुरः । हितः । ग्रावाणः । बर्हिः । अध्वरे । ऋचा । यामि । मरुतः । ब्रह्मणः । पते । देवाः । अवः । वरेण्यम् ॥४८॥

Samveda - Mantra Number : 48
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(उक्थे) स्तुतिमये। वच परिभाषणे धातोः पातृतुदिवचि०’ उ० २।७ इति थक्-प्रत्ययः। (अध्वरे) हिंसादिदोषरहिते उपासनायज्ञे (अग्निः) ज्योतिर्मयः परमात्मा (पुरोहितः) संमुखं निहितोऽस्ति। (ग्रावाणः) स्तुतिशब्दरूपाः यज्ञियपाषाणाः अपि (पुरोहिताः) संमुखस्थाः सन्ति। गृणातिः अर्चतिकर्मा। निघं० ३।१४। यद्वा गॄ शब्दे, क्वनिप् प्रत्ययः धातोर्ग्रादेशश्च। (बर्हिः) हृदयरूपं पवित्रं दर्भासनमपि (पुरोहितम्) सम्मुखस्थं विद्यते। अत्र यथायोग्यं विशेष्यशब्दस्य लिङ्गवचनानुसारं विशेषणभूतः पुरोहितशब्दोऽपि परिवर्तते। हे (मरुतः) प्राणाः ! हे (ब्रह्मणः पते) ज्ञानगुणविशिष्ट जीवात्मन् ! ब्रह्मणस्पतिः ब्रह्मणः पाता वा पालयिता वा इति निरुक्तम्। १०।१२। षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु।’ अ० ८।३।५३ इति विसर्गस्य सत्वम्। हे (देवाः) इन्द्रियमनोबुद्धिरूपा ऋत्विजः ! देवा ऋत्विजः। तै० सं० १।६।५।१। अहम् (ऋचा) ईशस्तुतिरूपया वाचा सह। ऋक् इति वाङ्नाम। निघं० १।११। ऋच् स्तुतौ, क्विप्। वः (वरेण्यम्) वरणीयम् (अवः) रक्षणम् (यामि२) याचामि। यामि इति याच्ञाकर्मसु पठितम्। निरु० ३।१९ ॥४॥
Essence
यथा बाह्ययज्ञे यज्ञवेद्यामग्निः प्रदीप्यते, तत्र सोमादिपेषणसाधनभूता ग्रावाणः, ऋत्विजामुपवेशनाय दर्भासनानि सज्जितानि भवन्ति, तथैवोपासनायज्ञे परमात्मरूपोऽग्निः समिध्यते, अर्चनाशब्दा एव पाषाणा जायन्ते, हृदयमेव दर्भासनतां प्रपद्यते। बृहस्पतिर्नाम जीवात्मैव यजमानो भवति। प्राणेन्द्रियमनोबुद्धय ऋत्विजो भूत्वा हृदयासनमुपविश्य तं यज्ञं प्रतन्वन्ति येषां साहाय्यं यत्कृतं रक्षणं च यज्ञस्य साफल्यार्थमनिवार्यमस्ति। अतः सर्वैरुपासकैराभ्यन्तरयज्ञे तेषां रक्षणं याचनीयम् ॥४॥
Subject
अथोपासनायज्ञस्य प्रक्रियामाह।
Footnote
१. ऋ० ८।२७।१ देवाँ अवो इति पाठः। २. नेदं याचते रूपम्। किं तर्हि? ईमहे यामि इत्यर्चतिकर्मसु पाठात्याते रूपम्—इति वि०। यामि याचामि, मध्यमाक्षरलोपः—इति भ०। याचतेर्लटि रूपम्, वर्णलोपश्छान्दसः—इति० सा०।