Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 478

1875 Mantra
Devata- पवमानः सोमः Rishi- त्रित आप्त्यः Chhand- गायत्री Swara- षड्जः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
प्र꣡ सोमा꣢꣯सो विप꣣श्चि꣢तो꣣ऽपो꣡ न꣢यन्त ऊ꣣र्म꣡यः꣢ । व꣡ना꣢नि महि꣣षा꣡ इ꣢व ॥४७८॥

प्र꣢ । सो꣡मा꣢꣯सः । वि꣣पश्चि꣡तः꣢ । वि꣣पः । चि꣡तः꣢꣯ । अ꣣पः꣢ । न꣣यन्ते । ऊर्म꣡यः꣢ । व꣡ना꣢꣯नि । म꣣हिषाः꣢ । इ꣣व ॥४७८॥

Mantra without Swara
प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः । वनानि महिषा इव ॥

प्र । सोमासः । विपश्चितः । विपः । चितः । अपः । नयन्ते । ऊर्मयः । वनानि । महिषाः । इव ॥४७८॥

Samveda - Mantra Number : 478
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(ऊर्मयः) तरङ्गरूपाः (विपश्चितः) बुद्धिवर्धकाः (सोमासः) परमात्मनः प्रस्रुताः आनन्दरसाः (अपः) कर्म। अपस् इति कर्मनाम। निघं० २।१। (प्र नयन्ते) प्रकृष्टमार्गे प्रेरयन्ति (वनानि) अन्तरिक्षस्थानि उदकानि। वनमित्युदकनाम। निघं० १।१२। (महिषाः इव) महान्तो माध्यमिका वायवः यथा प्र नयन्ते वेगेन प्रेरयन्ति, तद्वत्। महिष इति महन्नाम। निघं० ३।३। ‘अ॒पामु॒पस्थे॑ महि॒षा अ॑गृभ्णत॒। ऋ० ६।८।४’ इत्यस्य व्याख्याने महिषा माध्यमिका देवगणा इत्याह निरुक्तकारः। निरु० ७।२६ ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
योगिनां योगे सिद्धे सति दिव्यानन्दरसतरङ्गैस्तेषां कर्माण्यपि परमोत्कृष्टानि जायन्ते ॥२॥
Subject
अथ दिव्यानन्दरसतरङ्गाः किं कुर्वन्तीत्याह।
Footnote
१. ऋ० ९।३३।१ ‘ऽपां यन्त्यूर्मयः’ इति पाठः। साम० ७६४।