Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 475

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
प꣡रि꣢ स्वा꣣नो꣡ गि꣢रि꣣ष्ठाः꣢ प꣣वि꣢त्रे꣣ सो꣡मो꣢ अक्षरत् । म꣡दे꣢षु सर्व꣣धा꣡ अ꣢सि ॥४७५॥

प꣡रि꣢꣯ । स्वा꣣नः꣢ । गि꣣रिष्ठाः꣢ । गि꣣रि । स्थाः꣢ । प꣣वि꣡त्रे꣣ । सो꣡मः꣢꣯ । अ꣣क्षरत् । म꣡दे꣢꣯षु । स꣣र्वधाः꣢ । स꣣र्व । धाः꣢ । अ꣣सि ॥४७५॥

Mantra without Swara
परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् । मदेषु सर्वधा असि ॥

परि । स्वानः । गिरिष्ठाः । गिरि । स्थाः । पवित्रे । सोमः । अक्षरत् । मदेषु । सर्वधाः । सर्व । धाः । असि ॥४७५॥

Samveda - Mantra Number : 475
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(गिरिष्ठाः) पर्वतोत्पन्नः (सोमः) सोमौषधिः यथा (स्वानः) सुवानः अभिषूयमाणः सन्। षुञ् अभिषवे स्वादिः, कर्मणि शानच्। छन्दसि बाहुलकाद् उवङभावे यण्। (पवित्रे) दशापवित्रे क्षरति तथा (गिरिष्ठाः) गिरिवदुन्नते परब्रह्मणि स्थितः (स्वानः) तत अभिषूयमाणश्च (सोमः) आनन्दरसः (पवित्रे) पवित्रे हृदये (अक्षरत्) प्रस्रवति। हे आनन्दरसागार परमात्मन् ! त्वम् (मदेषु) आनन्दरसेषु क्षरितेषु सत्सु (सर्वधाः) सर्वेषाम् उपासकानां धारकः (असि) भवसि ॥९॥ अत्र श्लेषमूलो वाचकलुप्तोपमालङ्कारः ॥९॥
Essence
यदा रसनिधेः परमात्मनः सकाशादानन्दरसो हृदये प्रस्रवति तदा रससंतृप्तो योगी सर्वात्मना ध्रियते ॥९॥
Subject
अथानन्दरसप्रवाहं वर्णयति।
Footnote
१. ऋ० ९।१८।१ ऋषिः असितः काश्यपो देवलो वा। ‘परिसुवानो गिरिष्ठाः पवित्रे सोमो अक्षाः’ इति पाठः। साम० १०९३।