Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 471

1875 Mantra
Devata- पवमानः सोमः Rishi- त्रित आप्त्यः Chhand- गायत्री Swara- षड्जः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
ति꣣स्रो꣢꣫ वाच꣣ उ꣡दी꣢रते꣣ गा꣡वो꣢ मिमन्ति धे꣣न꣡वः꣢ । ह꣡रि꣢रेति꣣ क꣡नि꣢क्रदत् ॥४७१॥

ति꣣स्रः꣢ । वा꣡चः꣢꣯ । उत् । ई꣣रते । गा꣡वः꣢꣯ । मि꣣मन्ति । धेन꣡वः꣢ । ह꣡रिः꣢꣯ । ए꣣ति । क꣡नि꣢꣯क्रदत् ॥४७१॥

Mantra without Swara
तिस्रो वाच उदीरते गावो मिमन्ति धेनवः । हरिरेति कनिक्रदत् ॥

तिस्रः । वाचः । उत् । ईरते । गावः । मिमन्ति । धेनवः । हरिः । एति । कनिक्रदत् ॥४७१॥

Samveda - Mantra Number : 471
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(तिस्रः वाचः) ऋग्यजुःसामलक्षणाः (उदीरते) उद्गच्छन्ति, (धेनवः) नवप्रसूताः प्रस्नुतपयोधराः (गावः) पयस्विन्यः इव (मिमन्ति) तर्णकान् प्रति शब्दायन्ते। माङ् माने शब्दे च। परस्मैपदं छान्दसम्। (हरिः) कल्मषहारी आनन्दमयः सोमरसनिर्झरः। हरिः सोमो हरितवर्णः इति निरुक्तम् ४।१९। (कनिक्रदत्) झर-झर शब्दं कुर्वन् (एति) उपासकानां मानसभुवि निर्झरति। क्रदि आह्वाने रोदने च। ‘दाधर्तिदर्धर्ति० अ० ७।४।६५’ इति क्रन्दर्यङ्लुगन्तस्य शतरि अभ्यासस्य चुत्वाभावो निगागमश्च निपात्यते ॥५॥ अत्र व्यङ्ग्योत्प्रेक्षा स्वभावोक्तिरनुप्रासश्चालङ्कारः ॥५॥
Essence
परमात्माराधने लीना जनाः प्रेम्णा मुहुर्मुहुर्ऋग्यजुःसामलक्षणा वाच उदीरयन्ति। मन्ये वत्सान् प्रति स्नेहाकुला धेनवः शब्दायन्ते। उपासकानां मानसभूमयो रसनिधेः परमात्मनः सकाशात् प्रस्नुतेनानन्दरसनिर्झरेण स्नाता जायन्ते। अहो, कीदृशमानन्दमयं वातावरणं वर्तते ॥५॥
Subject
अथानन्दरसनिर्झरं वर्णयति।
Footnote
१. ऋ० ९।३३।४, साम० ८६९।