Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 47

1875 Mantra
Devata- अग्निः Rishi- सौभरि: काण्व: Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
अ꣡द꣢र्शि गातु꣣वि꣡त्त꣢मो꣣ य꣡स्मि꣢न्व्र꣣ता꣡न्या꣢द꣣धुः꣢ । उ꣢पो꣣ षु꣢ जा꣣त꣡मार्य꣢꣯स्य व꣡र्ध꣢नम꣣ग्निं꣡ न꣢क्षन्तु नो꣣ गि꣡रः꣢ ॥४७॥

अ꣡द꣢꣯र्शि । गा꣣तुवि꣡त्त꣢मः । गा꣣तु । वि꣡त्त꣢꣯मः । य꣡स्मि꣢꣯न् । व्र꣣ता꣡नि꣢ । आ꣣दधुः꣢ । आ꣣ । दधुः꣢ । उ꣡प꣢꣯ । उ꣣ । सु꣢ । जा꣣त꣢म् । आ꣡र्य꣢꣯स्य । व꣡र्ध꣢꣯नम् । अ꣣ग्नि꣢म् । न꣣क्षन्तु । नः । गि꣡रः꣢꣯ ॥४७॥

Mantra without Swara
अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः । उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः ॥

अदर्शि । गातुवित्तमः । गातु । वित्तमः । यस्मिन् । व्रतानि । आदधुः । आ । दधुः । उप । उ । सु । जातम् । आर्यस्य । वर्धनम् । अग्निम् । नक्षन्तु । नः । गिरः ॥४७॥

Samveda - Mantra Number : 47
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(गातुवित्तमः२) गच्छन्ति अत्र इति गातुः मार्गः तस्य अतिशयेन वेदयिता ज्ञापयिता, कर्तव्यमार्गप्रदर्शक इति भावः, सोऽग्निः परमेश्वरः (अदर्शि) अस्माभिः साक्षात्कृतः, (यस्मिन्) अग्नौ परमेश्वरे मोक्षार्थिनो जनाः (व्रतानि) स्वस्वकर्माणि। व्रतमिति कर्मनाम। निघं० २।१। (आदधुः) स्थापयन्ति, समर्पयन्ति ईश्वरार्पणबुद्ध्या निष्कामकर्माणि कुर्वन्तीत्यर्थः। (उ३) अथ च (सुजातम्) सम्यक् हृदये प्रकटीभूतम् (आर्यस्य४) धर्म्यगुणकर्मस्वभावस्य ईश्वरपुत्रस्य। अर्य इति ईश्वरनाम। निघं० २।२२। आर्यः ईश्वरपुत्रः। निरु० ६।२६। वर्धनम् वर्द्धयितारम् (अग्निम्) ज्योतिर्मयं नायकं परमेश्वरम् (नः) अस्माकम् (गिरः) स्तुतिवाचः (उप नक्षन्तु) उपगच्छन्तु, सामीप्येन प्राप्नुवन्तु। नक्षतिः गतिकर्मा। निघं० २।१४ ॥३॥
Essence
मोक्षार्थिनो मानवाः फलेच्छां परित्यज्य परमेश्वराय स्वकीयानि समस्तानि कर्माणि समर्पयन्ति। परमेश्वरः सदैव प्रज्वलितः प्रदीपवत् तेषां मनसि कर्तव्याकर्तव्यविवेकं जनयति। सर्वेषामार्यगुणकर्म- स्वभावानामुन्नायकस्य तस्य स्तुत्याऽस्माभिः स्वहृदयं पावनीयम् ॥३॥
Subject
परमेश्वरोऽस्माभिः स्तुतिवाग्भिरर्चनीय इत्याह।
Footnote
१. ऋ० ८।१०३।१ नक्षन्तु इत्यत्र नक्षन्त इति पाठः। साम० १५१५। २. अतिशयेन मार्गलम्भकः—इति भ०। कै गै रै शब्दे इत्येतस्य रूपम्। गातुः शब्दयिता, स्तुतीनामुच्चारयिता। तं यो वेत्ति स गातुवित्। अतिशयेन गातुवित् गातुवित्तमः—इति वा०। अतिशयेन मार्गाणां ज्ञाता—इति सा०। ३. उप उ सु त्रयोऽपि पूरणाः—इति वि०। उपो उप-उ इति निपातद्वयसमुदायः। उपनक्षन्तु, नक्षतिः व्याप्तिकर्मा, उपव्याप्नुवन्तु—इति भ०। ४. आर्यः धर्म्यगुणकर्मस्वभावः इति य० ३३।८२ भाष्ये द०। आर्यस्य यजमानस्य—इति वि०। यज्ञशीलस्य—इति भ०। उत्तमवर्णस्य—इति सा०।