Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 467

1875 Mantra
Devata- पवमानः सोमः Rishi- अहमीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः Kaand Name- पावमानं काण्डम् Gaan- प्रकृति गान Gaan Parva- पावमानं पर्व
Mantra with Swara
उ꣣च्चा꣡ ते꣢ जा꣣त꣡मन्ध꣢꣯सो दि꣣वि꣡ सद्भूम्या द꣢꣯दे । उ꣣ग्र꣢꣫ शर्म꣣ म꣢हि꣣ श्र꣡वः꣢ ॥४६७॥

उ꣣च्चा꣢ । उ꣣त् । चा꣢ । ते꣣ । जात꣢म् । अ꣡न्ध꣢꣯सः । दि꣣वि꣢ । सत् । भू꣡मि꣢꣯ । आ । द꣣दे । उग्र꣢म् । श꣡र्म꣢ । म꣡हि꣢꣯ । श्र꣡वः꣢꣯ ॥४६७॥

Mantra without Swara
उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे । उग्र शर्म महि श्रवः ॥

उच्चा । उत् । चा । ते । जातम् । अन्धसः । दिवि । सत् । भूमि । आ । ददे । उग्रम् । शर्म । महि । श्रवः ॥४६७॥

Samveda - Mantra Number : 467
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 5; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे पवमान सोम ! पवित्रकर्तः रसागार परमेश्वर ! (ते) तव (अन्धसः) आनन्दरसस्य (जातम्) समूहः (उच्चा) उच्चम् अस्ति। (दिवि सत्) द्योतमाने आनन्दमयकोशे विद्यमानं तत् (भूमि) भूमिष्ठो जनः। अत्र ‘सुपां सुलुक्’ इति विभक्तेर्लुक्। (आददे) गृह्णाति। तेन अन्धसा आनन्दरसेन (उग्रं शर्म) प्रबलं कल्याणम् (महि श्रवः) महद् यशश्च, प्राप्यते इति शेषः ॥१॥२
Essence
उपर्यन्तरिक्षे विद्यमानं पर्जन्यरसं चन्द्रमसः सौम्यप्रकाशरूपं रसं वा गृहीत्वा यथा भूमिः सस्य-श्यामला जायते, तथैवानन्दमयकोशेऽभिषूयमाणं ब्रह्मानन्दरसं पीत्वा सामान्यो जनः कृतार्थतां भजते ॥१॥
Subject
तत्र प्रथमम् उपरिष्टादधः सोमः प्रवहतीत्याह।
Footnote
१. ऋ० ९।६१।१० ‘सद्’ इत्यत्र ‘षद्’ इति पाठः। य० २६।१६ ऋषिः महीयवः। साम० ६७२। २. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्वत्पक्षे व्याख्यातवान्। एष च तत्र तत्कृतो भावार्थः—‘विद्वद्भिर्मनुष्यैः सूर्यकिरणवायुमन्त्यन्नादि- युक्तानि महान्त्युच्चानि गृहाणि रचयित्वा तत्र निवासेन सुखं भोक्तव्यम्’—इति। देवता च तत्र तेन अग्निः स्वीकृता।