Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 466

1875 Mantra
Devata- इन्द्रः Rishi- गृत्समदः शौनकः Chhand- अष्टिः Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त꣢व꣣ त्य꣡न्न꣢꣯र्यं नृ꣣तो꣡ऽप꣢ इन्द्र प्रथ꣣मं꣢ पू꣣र्व्यं꣢ दि꣣वि꣢ प्र꣣वा꣡च्यं꣢ कृ꣣त꣢म् । यो꣢ दे꣣व꣢स्य꣣ श꣡व꣢सा꣣ प्रा꣡रि꣢णा꣣ अ꣡सु꣢ रि꣣ण꣢न्न꣣पः꣢ । भु꣢वो꣣ वि꣡श्व꣢म꣣भ्य꣡दे꣢व꣣मो꣡ज꣢सा वि꣣दे꣡दूर्ज꣢꣯ꣳ श꣣त꣡क्र꣢तुर्वि꣣दे꣡दिष꣢꣯म् ॥४६६॥

त꣡व꣢꣯ । त्यत् । न꣡र्य꣢꣯म् । नृ꣣तो । अ꣡पः꣢꣯ । इ꣣न्द्र । प्रथम꣢म् । पू꣣र्व्य꣢म् । दि꣣वि꣢ । प्र꣣वाच्य꣢म् । प्र꣣ । वा꣡च्य꣢꣯म् । कृ꣣त꣢म् । यः । दे꣣व꣡स्य꣢ । श꣡व꣢꣯सा । प्रा꣡रि꣢꣯णाः । प्र꣣ । अ꣡रि꣢꣯णाः । अ꣡सु꣢꣯ । रि꣣ण꣢न् । अ꣣पः꣢ । भु꣡वः꣢꣯ । वि꣡श्व꣢꣯म् । अ꣣भि꣢ । अ꣡देव꣢꣯म् । अ । दे꣣वम् । ओ꣡ज꣢꣯सा । वि꣣दे꣢त् । ऊ꣡र्ज꣢꣯म् । श꣣त꣡क्र꣢तुः । श꣣त꣢ । क्र꣣तुः । विदे꣢त् । इ꣡ष꣢꣯म् ॥४६६॥

Mantra without Swara
तव त्यन्नर्यं नृतोऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम् । यो देवस्य शवसा प्रारिणा असु रिणन्नपः । भुवो विश्वमभ्यदेवमोजसा विदेदूर्जꣳ शतक्रतुर्विदेदिषम् ॥

तव । त्यत् । नर्यम् । नृतो । अपः । इन्द्र । प्रथमम् । पूर्व्यम् । दिवि । प्रवाच्यम् । प्र । वाच्यम् । कृतम् । यः । देवस्य । शवसा । प्रारिणाः । प्र । अरिणाः । असु । रिणन् । अपः । भुवः । विश्वम् । अभि । अदेवम् । अ । देवम् । ओजसा । विदेत् । ऊर्जम् । शतक्रतुः । शत । क्रतुः । विदेत् । इषम् ॥४६६॥

Samveda - Mantra Number : 466
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (नृतो) पृथिव्यादिलोकानां नर्तयितः (इन्द्र) जगदीश्वर ! (तव) त्वदीयम् (त्यत्) तत् प्रसिद्धम् (नर्यम्) नराणां हितकरम्, (प्रथमम्) श्रेष्ठम्, (पूर्व्यम्) पूर्वकालादागतम् (दिवि कृतम्) आकाशे विहितम् (अपः) कर्म। अपस् इति कर्मनाम। निघं० २।१। (प्रवाच्यम्) प्रशंसनीयम् अस्ति, (यः) यस्त्वम् (देवस्य) प्रकाशकस्य सूर्यस्य (शवसा) बलेन असु असुं प्राणम्। असु शब्दात् ‘सुपां सुलुक्०। अ० ७।१।३९’ इति विभक्तेर्लुक्। (रिणन्) प्रवर्तयन्, प्रवर्तयितुमिच्छन्नित्यर्थः, (अपः) अन्तरिक्षस्थान्युदकानि, (प्रारिणाः) वर्षणेन अधः प्रगमयसि। रिणातिः गतिकर्मा। निघं० २।१४। किञ्च (विश्वम्) समस्तम् (अदेवम्) अप्रकाशनिमित्तम् भौतिकं मानसं चान्धकारम् (ओजसा) बलेन (अभिभुवः) अभिभवसि। अथ परोक्षकृतमाह। (शतक्रतुः) अनन्तप्रज्ञः अनन्तकर्मा च स इन्द्रः परमेश्वरः (ऊर्जम्) बलं प्राणं च (विदेत्) लम्भयतु, (इषम्) इच्छासिद्धिम् (विदेत्) लम्भयतु ॥१०॥२ अत्र ‘रिणा, रिण’, ‘देव, देव’, ‘विदेदू, विदेदि’ इत्यत्र छेकानुप्रासोऽलङ्कारः ॥१०॥
Essence
परमेश्वर एव सूर्यद्वारा पृथिव्यादीन् लोकान् नर्तयन् सूर्यं परितः स्वधुरि च परिक्रमयति। स एव यथाऽन्तरिक्षेऽवरुद्धा अपो वर्षति तथैवात्मलोकेऽवरुद्धा आनन्दधारा मनोभूमौ प्रवाहयति। स एव महत् तमोऽवदीर्य यथा भौतिकं प्रकाशं जनयति तथैव मनोभूमौ व्याप्तं तमोजालं विच्छिद्यात्मप्रकाशं प्रकटयति ॥१०॥ अत्रेन्द्रसूर्यपवमानहरिसवित्रग्निविष्णुनामभिः परमेश्वरादेर्गुणकर्म- वर्णनाद् विश्वेषां देवानां मरुतां चाह्वानादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन संगतिरस्तीति वेद्यम् ॥ इति पञ्चमे प्रपाठके द्वितीयार्द्धे तृतीया दशतिः ॥ इति चतुर्थेऽध्याये द्वादशः खण्डः ॥ समाप्तश्चायं चतुर्थाध्यायः ॥ इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्य श्रीमद् गोपालरामभगवती- देवीतनयेन हरिद्वारीयगुरुकुलकांगड़ीविश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेनाचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्द- सरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचितेसंस्कृतार्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेद-भाष्ये ऐन्द्रं काण्डं पर्व वा समाप्तिमगात् ॥
Subject
अथेन्द्रो देवता। तस्य लोकोपकारकाणि कर्माणि वर्णयति।
Footnote
१. ऋ० २।२२।४, ‘यद् देवस्य’, ‘असुं’, ‘भुवद् विश्वमभ्यादेवमोजसा विदादूर्जं शतक्रतुर्विदादिषम्’ इति भेदः। २. ऋग्भाष्ये दयानन्दर्षिर्ऋचमिमां जीवेश्वरविषये व्याख्यातवान्।