Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 465

1875 Mantra
Devata- अग्निः Rishi- परुच्छेपो दैवोदासिः Chhand- अत्यष्टिः Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣣ग्नि꣡ꣳ होता꣢꣯रं मन्ये꣣ दा꣡स्व꣢न्तं꣣ व꣡सोः꣢ सू꣣नु꣡ꣳ सह꣢꣯सो जा꣣त꣡वे꣢दसं꣣ वि꣢प्रं꣣ न꣢ जा꣣त꣡वे꣢दसम् । य꣢ ऊ꣣र्ध्व꣡या꣢ स्वध्व꣣रो꣢ दे꣣वो꣢ दे꣣वा꣡च्या꣢ कृ꣣पा꣢ । घृ꣣त꣢स्य꣣ वि꣡भ्रा꣢ष्टि꣣म꣡नु꣢ शु꣣क्र꣡शो꣢चिष आ꣣जु꣡ह्वा꣢नस्य स꣣र्पि꣡षः꣢ ॥४६५॥

अ꣣ग्नि꣢म् । हो꣡ता꣢꣯रम् । म꣣न्ये । दा꣡स्व꣢꣯न्तम् । व꣡सोः꣢꣯ । सू꣣नु꣢म् । स꣡ह꣢꣯सः । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । वि꣡प्रम् । वि । प्र꣣म् । न꣢ । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । यः꣢ । ऊ꣣र्ध्व꣡या꣢ । स्व꣣ध्वरः꣢ । सु꣣ । अध्वरः꣢ । दे꣣वः꣢ । दे꣣वा꣡च्या꣢ । कृ꣣पा꣢ । घृ꣣त꣡स्य꣢ । वि꣡भ्रा꣢꣯ष्टिम् । वि । भ्रा꣣ष्टिम् । अ꣡नु꣢꣯ । शु꣣क्र꣡शो꣢चिषः । शु꣣क्र꣢ । शो꣣चिषः । आजु꣡ह्वा꣢नस्य । आ꣣ । जु꣡ह्वा꣢꣯नस्य । स꣣र्पि꣡षः꣢ ॥४६५॥

Mantra without Swara
अग्निꣳ होतारं मन्ये दास्वन्तं वसोः सूनुꣳ सहसो जातवेदसं विप्रं न जातवेदसम् । य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥

अग्निम् । होतारम् । मन्ये । दास्वन्तम् । वसोः । सूनुम् । सहसः । जातवेदसम् । जात । वेदसम् । विप्रम् । वि । प्रम् । न । जातवेदसम् । जात । वेदसम् । यः । ऊर्ध्वया । स्वध्वरः । सु । अध्वरः । देवः । देवाच्या । कृपा । घृतस्य । विभ्राष्टिम् । वि । भ्राष्टिम् । अनु । शुक्रशोचिषः । शुक्र । शोचिषः । आजुह्वानस्य । आ । जुह्वानस्य । सर्पिषः ॥४६५॥

Samveda - Mantra Number : 465
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
अहम् (होतारम्) सृष्ट्युत्पत्तिप्रलयकर्तारम्, (वसोः) वसुनः धनस्य (दास्वन्तम्) दातारम्। दासृ दाने, क्वसुः। (सहसः सूनुम्) बलस्य प्रेरकम्। षू प्रेरणे धातोः ‘सुवः कित्। उ० ३।३५’ इति नुः प्रत्ययः किच्च। (जातवेदसम्) जाते-जाते विद्यमानम्, सर्वव्यापकं सर्वान्तर्यामिनम्, (विप्रं न) विपश्चितमिव (जातवेदसम्) जातं यो वेत्ति तम्, जातप्रज्ञानम् (अग्निम्) अग्रनेतारं परमात्मानम् (मन्ये) अर्चामि। मन्यते अर्चतिकर्मा। निघं० ३।१४। (देवः) स्वयं प्रकाशितः अन्येषां प्रकाशकश्च (यः) परमात्मा (ऊर्ध्वया) उन्नतया (देवाच्या) देवान् सूर्यचन्द्रादीन् प्रति अक्तया गतया (कृपा) शक्त्या। देवाच्या कृपा देवान् प्रत्यक्तया कृपा इति यास्कः। निरु० ६।८। (स्वध्वरः) उत्कृष्टसृष्टियज्ञस्य सञ्चालको वर्तते। किञ्च (आजुह्वानस्य) अग्नौ आहूयमानस्य (शुक्रशोचिषः) उज्ज्वलदीप्तेः (घृतस्य) आज्यस्य (विभ्राष्टिम्) प्रदीप्तिम् (अनु) अनुप्रविष्टोऽस्ति, ‘अग्नावग्निश्चरति प्रविष्टः।’ यजु० ५।४ इति श्रुतेः। अग्निज्वलनादिकाः क्रियाः अपि परमेश्वरस्यैव सामर्थ्येन भवन्तीत्यर्थः। तथा चोपनिषद्वर्णः ‘तस्य भासा सर्वमिदं विभाति।’ श्वेता० ६।१४ इति ॥९॥२ अत्रोपमालङ्कारः। ‘जातवेदसम्’ इत्यस्य पुनरुक्तौ यमकम्, ‘देवो, देवा’ इत्यत्र च छेकानुप्रासः ॥९॥
Essence
अग्नौ घृताहुत्या या प्रभा जायते सा धनबलज्ञानादिप्रदातुः सृष्टिव्यवस्थापकस्य जगदीश्वरस्यैव प्रभाया निदर्शनम् ॥९॥
Subject
अथाग्निर्देवता। परमेश्वरस्य महिमानमाह।
Footnote
१. ऋ० १।१२७।१, य० १५।४७, अथ० २०।६७।३। सर्वत्र ‘वसोः’, ‘शुक्रशोचिष’ इत्यत्र ‘वसुं’, ‘वष्टि शोचिषा’ इचि पाठः। यजुर्वेदे ऋषिः परमेष्ठी। २. दयानन्दर्षिर्ऋग्भाष्ये मन्त्रमिमं ‘कीदृशयोः स्त्रीपुरुषयोर्विवाहो भवितुं योग्यः’ इति विषये, यजुर्भाष्ये च विद्वद्विषये व्याख्यातवान्।