Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 464

1875 Mantra
Devata- सविता Rishi- नकुलः Chhand- अत्यष्टिः Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣣भि꣢꣫ त्यं दे꣣व꣡ꣳ स꣢वि꣣ता꣡र꣢मो꣣꣬ण्योः꣢꣯ क꣣वि꣡क्र꣢तु꣣मर्चा꣡मि꣢ स꣣त्य꣡स꣢वꣳ रत्न꣣धा꣢म꣣भि꣢ प्रि꣣यं꣢ म꣣ति꣢म् ऊ꣣र्ध्वा꣢꣫ यस्या꣣म꣢ति꣣र्भा꣡ अदि꣢꣯द्युत꣣त्स꣡वी꣢मनि꣣ हि꣡र꣢ण्यपाणिरमिमीत सु꣣क्र꣡तुः꣢ कृ꣣पा꣡ स्वः꣢ ॥४६४॥

अ꣣भि꣢ । त्यम् । दे꣣व꣢म् । स꣣विता꣡र꣢म् । ओ꣣ण्योः꣢꣯ । क꣣वि꣡क्र꣢तुम् । क꣣वि꣢ । क्र꣣तुम् । अ꣡र्चा꣢꣯मि । स꣣त्य꣡स꣢वम् । स꣣त्य꣢ । स꣣वम् । रत्नधा꣢म् । र꣣त्न । धा꣢म् । अ꣣भि꣢ । प्रि꣣य꣢म् । म꣣ति꣢म् । ऊ꣣र्ध्वा꣢ । य꣡स्य꣢꣯ । अ꣣म꣡तिः꣢ । भाः । अ꣡दि꣢꣯द्युतत् । स꣡वी꣢꣯मनि । हि꣡र꣢꣯ण्यपाणिः । हि꣡र꣢꣯ण्य । पा꣣णिः । अमिमीत । सुक्र꣡तुः꣢ । सु꣣ । क्र꣡तुः꣢꣯ । कृ꣣पा꣢ । स्वा३रि꣡ति꣢ ॥४६४॥

Mantra without Swara
अभि त्यं देवꣳ सवितारमोण्योः कविक्रतुमर्चामि सत्यसवꣳ रत्नधामभि प्रियं मतिम् ऊर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वः ॥

अभि । त्यम् । देवम् । सवितारम् । ओण्योः । कविक्रतुम् । कवि । क्रतुम् । अर्चामि । सत्यसवम् । सत्य । सवम् । रत्नधाम् । रत्न । धाम् । अभि । प्रियम् । मतिम् । ऊर्ध्वा । यस्य । अमतिः । भाः । अदिद्युतत् । सवीमनि । हिरण्यपाणिः । हिरण्य । पाणिः । अमिमीत । सुक्रतुः । सु । क्रतुः । कृपा । स्वा३रिति ॥४६४॥

Samveda - Mantra Number : 464
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। अहम् (त्यम्) तं प्रसिद्धगुणकर्मस्वभावम्, (ओण्योः) द्यावापृथिव्योः वाङ्मनसोर्वा। ओण्योः इति द्यावापृथिवीनामसु पठितम्। निघं० ३।३०। (देवम्) प्रकाशकम्, (कविक्रतुम्) क्रान्तप्रज्ञं मेधाविकर्माणं वा, (सत्यसवम्) सत्यैश्वर्यं सत्यप्रेरणं वा, (रत्नधाम्) रमणीयानां लोकानां धारयितारम्, (प्रियम्) प्रेमार्हम्, (मतिम्) मन्तारम्। मनु अवबोधने धातोः कर्तरि क्तिन्। (सवितारम्) जगतः प्रसवितारं परमेश्वरम् (अभि अर्चामि) आभिमुख्येन पूजयामि। (यस्य) सवितुः परमेश्वरस्य (ऊर्ध्वा) उत्कृष्टा (अमतिः भाः) आत्मिकदीप्तिः। अमतिः अमामयी मतिः आत्ममयी। निरु० ६।१२। (अदिद्युतत्) द्योतयति प्रकाशयति उपासकान्, तस्य (सवीमनि) अनुशासने, वयं स्यामेति शेषः। सः (हिरण्यपाणिः२) ज्योतिषां व्यवहारे आनेता। ज्योतिर्हि हिरण्यम्। श० ४।३।४।२१। (सुक्रतुः) सुप्रज्ञः सुकर्मा वा परमेश्वरः (कृपा) कृपया। कृपा प्रातिपदिकात् तृतीयैकवचने ‘सुपां सुलुक्०’ इति पूर्वसर्वणदीर्घः। यद्वा, कृपू सामर्थ्ये धातोर्भावे क्विपि तृतीयैकवचने रूपम्। (स्वः) ज्योतिष्मन्तम् आदित्यम्। स्वः आदित्यो भवति इति यास्कः। निरु० २।१४। (अमिमीत) निर्मितवान् ॥ अथ द्वितीयः—राष्ट्रपरः। अहं प्रजाजनः (त्यम्) तं विशिष्टगुणकर्मस्वभावम्, (ओण्योः) राष्ट्रवासिनोः स्त्रीपुरुषयोः (देवम्) विद्यादिभिः प्रकाशकम्, (कविक्रतुम्) मेधाविकर्माणम्, (सत्यसवम्) सत्यज्ञानम्, (रत्नधाम्) रमणीयानां धनानां प्रदातारम्, (प्रियम्) प्रजानां प्रेमास्पदम्, (मतिम्) विचारशीलम् (सवितारम्) सदाचारप्रेरकं राजानम् (अभि अर्चामि) सत्करोमि। (यस्य) राज्ञः (ऊर्ध्वा अमतिः) सर्वातिशायि तेजस्वि रूपम्। अमतिः इति रूपनाम। निघं० ३।७। (भाः) यशोदीप्तिश्च (अदिद्युतत्) अन्यानपि तेजसा यशसा च प्रकाशयति, तस्य (सवीमनि) अनुशासने वयं स्याम। (हिरण्यपाणिः) सुवर्णादिधनहस्तः, (सुक्रतुः) सुकर्मा स नृपतिः (कृपा) स्वसामर्थ्येन, राष्ट्रे (स्वः) सुखम् (अमिमीत) निर्मिमीते ॥३ अथ तृतीयः—सू्र्यपरः। अम् (त्यम्) तं दूरे विद्यमानम्, (ओण्योः) द्यावापृथिव्योः (देवम्) प्रकाशकम्, (कविक्रतुम्) कवेः मेधाविनः क्रतवः कर्माणीव क्रतवः कर्माणि भूमण्डलधारणऋतुचक्रप्रवर्तनादीनि यस्य तम्, (सत्यसवम्) सत्यं जलं सुवति उपर्यधः प्रेरयतीति सत्यसवः तम्। सत्यम् इति जलनाम। निघं० १।१२। (रत्नधाम्) रत्नानि स्वर्णरजतहीरकमुक्तादीनि दधाति भुवि स्थापयति यस्तम्, (प्रियम्) तृप्तिप्रदम्। प्रीणातीति प्रियः। प्रीञ् तर्पणे कान्तौ च। (मतिम्) ज्ञानसाधनम्, (सवितारम्) सूर्यम् (अभि अर्चामि) स्तौमि, तद्गुणकर्माणि वर्णयामीत्यर्थः। (यस्य) सूर्यस्य (अमतिः भाः) रूपवती प्रभा (सवीमनि) उत्पन्ने भूमण्डले (अदिद्युतत्) सर्वान् पदार्थान् प्रकाशयति, सः (हिरण्यपाणिः) सुवर्णकिरणः (सुक्रतुः) उत्कृष्टकर्मा सूर्यः (कृपा) स्वसामर्थ्येन (स्वः) प्रकाशम् (अमिमीत) निर्मिमीते ॥८॥ अत्र श्लेषालङ्कारः ॥८॥
Essence
अनुपमगुणकर्मस्वभावयुक्तं परमेश्वरं सम्पूज्य नृपतिं सत्कृत्य सूर्यं चोपयुज्य प्रजाः सुखं प्राप्नुवन्ति ॥८॥
Subject
अथ सविता देवता। सवितृनाम्ना परमेश्वरनृपतिसूर्यान् वर्णयति।
Footnote
१. अथ० ७।१४।१,२ ऋषिः अथर्वा, द्वयोः ऋचोः पृथक् पृथग् अनुष्टुप् छन्दः। ‘कृपा’ इत्यत्र ‘कृपात्’ इति पाठः। य० ४।२५, ‘मतिम्’ इत्यस्यानन्तरं ‘कविम्’ इति, अन्ते च ‘प्रजाभ्यस्त्वा प्रजास्त्वाऽनु प्राणन्तु प्रजास्त्वमनुप्राणिहि’ इत्यधिकः पाठः। २. ‘(हिरण्यपाणिः) हिरण्यानि ज्योतींषि सूर्य्यादीनि सुवर्णादीनि वा पाणौ व्यवहारे यस्य सः’ इति य० ४।२५ भाष्ये द०। ३. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमेतं परमेश्वरविषये राजप्रजाविषये च व्याख्यातवान्।