Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 463

1875 Mantra
Devata- पवमानः सोमः Rishi- अनानतः पारुच्छेपिः Chhand- अत्यष्टिः Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣣या꣢ रु꣣चा꣡ हरि꣢꣯ण्या पुना꣣नो꣢꣫ विश्वा꣣ द्वे꣡षा꣢ꣳसि तरति स꣣यु꣡ग्व꣢भिः꣣ सू꣢रो꣣ न꣢ स꣣यु꣡ग्व꣢भिः । धा꣡रा꣢ पृ꣣ष्ठ꣡स्य꣢ रोचते पुना꣣नो꣡ अ꣢रु꣣षो꣡ हरिः꣢꣯ । वि꣢श्वा꣣ य꣢द्रू꣣पा꣡ प꣢रि꣣या꣡स्यृक्व꣢꣯भिः स꣣प्ता꣡स्ये꣢भि꣣रृ꣡क्व꣢भिः ॥४६३॥

अ꣣या꣢ । रु꣣चा꣢ । ह꣡रि꣢꣯ण्या । पुना꣣नः꣢ । वि꣡श्वा꣢꣯ । द्वे꣡षाँ꣢꣯सि । त꣣रति । स꣣युग्व꣢भिः꣣ । स । यु꣡ग्व꣢꣯भिः । सू꣡रः꣢꣯ । न । स꣣यु꣡ग्व꣢भिः । स꣣ । यु꣡ग्व꣢꣯भिः । धा꣡रा꣢꣯ । पृ꣣ष्ठ꣡स्य꣢ । रो꣣चते । पुनानः꣢ । अ꣣रु꣢षः । ह꣡रिः꣢꣯ । वि꣡श्वा꣢꣯ । यत् । रू꣣पा꣢ । प꣣रिया꣡सि꣢ । प꣣रि । या꣡सि꣢꣯ । ऋ꣡क्व꣢꣯भिः । स꣣प्ता꣡स्ये꣢भिः । स꣣प्त꣢ । आ꣣स्येभिः । ऋ꣡क्व꣢꣯भिः ॥४६३॥

Mantra without Swara
अया रुचा हरिण्या पुनानो विश्वा द्वेषाꣳसि तरति सयुग्वभिः सूरो न सयुग्वभिः । धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः । विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः ॥

अया । रुचा । हरिण्या । पुनानः । विश्वा । द्वेषाँसि । तरति । सयुग्वभिः । स । युग्वभिः । सूरः । न । सयुग्वभिः । स । युग्वभिः । धारा । पृष्ठस्य । रोचते । पुनानः । अरुषः । हरिः । विश्वा । यत् । रूपा । परियासि । परि । यासि । ऋक्वभिः । सप्तास्येभिः । सप्त । आस्येभिः । ऋक्वभिः ॥४६३॥

Samveda - Mantra Number : 463
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
एष सोमः इन्द्रियादीनां कर्मसु प्रेरकः आत्मा (अया) अनया (हरिण्या) हृदयहारिण्या (रुचा) कान्त्या (पुनानः) पवित्रतामापादयन् (सयुग्वभिः) सह युज्यमानैः प्राणैः सह संमिल्य (विश्वा द्वेषांसि) समस्तानि द्वेष्टॄणि कामक्रोधादिरिपुजातानि (तरति) अतिक्रामति, (सूरः न) यथा सूर्यः (सयुग्वभिः) सहयोगिभिः किरणैः (विश्वा द्वेषांसि) समस्तानि शत्रुभूतानि तमांसि (तरति) अतिक्रामति तद्वत्। (पृष्ठस्य) प्रकाशसेचकस्य आत्मरूपस्य सोमस्य। पृषु सेचने धातोः औणादिकः थक् प्रत्ययः। (धारा) प्रकाशधारा (रोचते) भासते। (अरुषः) तेजसा आरोचमानः। अरुष इति रूपनाम। निघं० ३।७। ततो मत्वर्थे अच् प्रत्ययः। (हरिः) पापहर्ता आत्मरूपः सोमः त्वम् (पुनानः) मनोबुद्ध्यादीन् पवित्रीकुर्वन्, भवसीति शेषः (यत्) यदा, त्वम् (ऋक्वभिः२) प्रशस्तस्तुतिमद्भिः कर्मभिः सह, (ऋक्वभिः३) प्रशंसनीयैः (सप्तास्येभिः) सप्तमुखैः प्राणैः सह। सप्तास्याः प्राणास्तु, पञ्च ज्ञानेन्द्रियाणि मनो बुद्धिश्च। सप्त वै शीर्षन् प्राणाः। ऐ० ब्रा० १।१७। (विश्वा रूपा) विश्वानि रूपाणि, रूपवतः सर्वान् मनुष्यान् (परि यासि) परिप्राप्नोषि, तदा पुनानो भवसीति ॥ अत्र ‘सूरो न सयुग्वभिः’ इति सूर्यस्योपमानत्वे शिष्टोऽपि मन्त्रः सूर्यपक्षे घटते। कीदृशः सूरः ? यः (अया) अनया (हरिण्या) तमोहारिण्या (रुचा) दीप्त्या (पुनानः) भुवं पवित्रीकुर्वन् (सयुग्वभिः) सहयोगिभिः किरणैः (विश्वा द्वेषांसि) समस्तानि द्वेष्टॄणि तमोरोगादीनि (तरति) अभिभवति, (पृष्ठस्य) वृष्टिकर्तुः यस्य सूर्यस्य (धारा) प्रकाशधारा वृष्टिधारा वा (रोचते) दीप्यते, यः (अरुषः) तेजस्विरूपः, आरोचमानः (हरिः) आकर्षणबलेन पृथिव्यादिलोकानां धर्ता सूर्यः (पुनानः) पावको भवति, (यत्) यदा (सप्तास्येभिः) सप्तमुखैः सप्तवर्णैरिति यावत् (ऋक्वभिः) प्रशंसनीयैः किरणैः (विश्वा रूपा) सर्वाणि रूपवन्ति वस्तूनि (परि यासि) परितो गच्छति ॥७॥ अत्र श्लिष्टोपमालङ्कारः। सयुग्वभिः ऋक्वभिः इत्यनयोः सकृदावृत्तौ च यमकम् ॥७॥
Essence
यथा सूर्यः स्वकिरणै रोगमालिन्यादीन्यपहृत्य भूमण्डलं पुनाति, तथा मनुष्याणामात्मा सर्वाणि पापद्वेषादीनि कल्मषाणि संहृत्य जीवनं पुनातु ॥७॥
Subject
अथ पवमानो देवता। सूर्योपमानेन जीवात्मरूपं सोमं वर्णयति।
Footnote
१. ऋ० ९।१११।१, ‘स्वयुग्वभिः सूरो न स्वयुग्वभिः’, ‘धारा सुतस्य रोचते’, ‘परियात्यृक्वभिः’ इति पाठः। साम० १५९०। २. (ऋक्वभिः) प्रशस्ता ऋचः स्तुतयो विद्यन्ते येषु कर्मसु तैः इति ऋ० १।८७।६ भाष्ये द०। ३. ऋक्वभिः स्तोतृभिः, सप्तास्येभिः सप्त छन्दांसि आस्यभूतानि येषाम् ऋत्विजां ते सप्तास्याः...अथवा सप्त वषट्कारिणो होत्राः सप्तास्यानि, अथवा सप्त सोमसंस्थाः सप्तास्यानि ताभिः। ऋक्वभिः ऋत्विग्भिः—इति वि०। ऋक्वभिः स्तुत्यैः तेजोभिः, सप्तास्येभिः सर्पणशीलमुखैः—इति भ०। सप्तास्येभिः रसाहरणशीलास्यैः ऋक्वभिः स्तुतिमद्भिः ऋक्वभिः तेजोभिः—इति सा०।