Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 462

1875 Mantra
Devata- मरुतः Rishi- एवयामरुदात्रेयः Chhand- अतिजगती Swara- निषादः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
प्र꣡ वो꣢ म꣣हे꣢ म꣣त꣡यो꣢ यन्तु꣣ वि꣡ष्ण꣢वे म꣣रु꣡त्व꣢ते गिरि꣣जा꣡ ए꣢व꣣या꣡म꣢रुत् । प्र꣡ शर्धा꣢꣯य꣣ प्र꣡ यज्य꣢꣯वे सुखा꣣द꣡ये꣢ त꣣व꣡से भ꣣न्द꣡दि꣢ष्टये꣣ धु꣡नि꣢व्रताय꣣ श꣡व꣢से ॥४६२॥

प्र꣢ । वः꣣ । महे꣢ । म꣣त꣡यः꣢ । य꣣न्तु । वि꣡ष्ण꣢꣯वे । म꣣रु꣡त्व꣢ते । गि꣣रिजाः꣢ । गि꣣रि । जाः꣢ । ए꣣वया꣡म꣢रुत् । ए꣣वया꣢ । म꣣रुत् । प्र꣢ । श꣡र्धा꣢꣯य । प्र । य꣡ज्य꣢꣯वे । सु꣣खाद꣡ये꣢ । सु꣣ । खाद꣡ये꣢ । त꣣व꣡से꣢ । भ꣣न्द꣡दि꣢ष्टये । भ꣣न्द꣢त् । इ꣣ष्टये । धु꣡नि꣢꣯व्रताय । धु꣡नि꣢꣯ । व्र꣣ताय । श꣡व꣢꣯से ॥४६२॥

Mantra without Swara
प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् । प्र शर्धाय प्र यज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे ॥

प्र । वः । महे । मतयः । यन्तु । विष्णवे । मरुत्वते । गिरिजाः । गिरि । जाः । एवयामरुत् । एवया । मरुत् । प्र । शर्धाय । प्र । यज्यवे । सुखादये । सु । खादये । तवसे । भन्ददिष्टये । भन्दत् । इष्टये । धुनिव्रताय । धुनि । व्रताय । शवसे ॥४६२॥

Samveda - Mantra Number : 462
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—अध्यात्मपरः। हे सखायः ! (महे) महते, (मरुत्वते) प्राणवते (विष्णवे) सर्वस्मिन् शरीरे व्याप्तक्रियाय जीवात्मना जीवात्मनः प्रोत्साहनायेत्यर्थः (वः) युष्माकम् (मतयः) बुद्धयः वाचो वा। वाग् वै मतिः। श० ८।१।२।७। (प्र यन्तु) प्रवर्तन्ताम्, यः विष्णुः जीवात्मा (गिरिजाः) गिरौ पर्वतवद् विद्यमाने देहे गृहीतजन्मा, (एवयामरुत्) वेगवत्प्राणश्च वर्तते। एवेन वेगेन यान्तीति एवयाः। एवयाः वेगगामिनः मरुतः प्राणाः सहचराः यस्य स एवयामरुत्। किञ्च, (यज्यवे) शरीरसञ्चालनरूपयज्ञकर्त्रे, (सुखादये) रोगादीनां सुभक्षकाय, (तवसे) शरीरेण वृद्धिशीलाय। तौति वर्द्धते इति तवाः तस्मै। तु गतिवृद्धिहिंसासु सौत्रो धातुः, तत औणादिकः असुन् प्रत्ययः. (भन्ददिष्टये) भन्दन्ती सुखयन्ती इष्टिः शतसंवत्सरजीवनरूपा यस्मात् तस्मै, (धुनिव्रताय) धुनि शारीरमानसदोषप्रकम्पकं व्रतं कर्म यस्य तस्मै, (शवसे) बलवते (शर्धाय) मारुताय गणाय प्राणसमूहाय। शृधु प्रसहने चुरादिः, शर्धयति प्रसहते इति शर्धः तस्मै। वः मतयः बुद्धयो वाचो वा (प्र प्र) प्र यन्तु, प्र यन्तु, प्रकर्षेण प्रवर्तन्ताम् ॥ अथ द्वितीयः—राष्ट्रपरः। हे राष्ट्रवासिनः ! (महे) महते, (मरुत्वते) प्रशस्ताः मरुतः योद्धारः सैनिकाः अस्य सन्तीति तस्मै (विष्णवे) त्रिविक्रमाय जलस्थलाकाशगामिने नृपतये, तं स्तोतुं बोधयितुं वा (वः) युष्माकम् (मतयः) वाचः (प्र यन्तु) प्रवर्तन्ताम्, यः विष्णुः नृपतिः (गिरिजाः) पर्वतवद् राष्ट्रस्य सर्वोन्नते पदेऽभिषिक्तः (एवयामरुत्) वेगवत्सैनिकश्च वर्तते। किञ्च, (यज्यवे) राष्ट्ररक्षायज्ञस्य अनुष्ठात्रे, (सुखादये) उत्कृष्टाः खादयः पादत्राणाः हस्तत्राणाश्च यस्य तस्मै। अंसे॑षु व ऋ॒ष्टयः॑ प॒त्सु खा॒दयः॒। ऋ० ५।५४।११, हस्ते॑षु खा॒दिश्च॑ कृ॒तिश्च॒ संद॑धे। ऋ० १।१६८।३ इति श्रुतिः। (तवसे) गतिमते, कर्मण्याय। तवतेर्गतिकर्मणः। असुन्। (भन्ददिष्टये) भन्दन्ती सुखयित्री इष्टिः संग्रामरूपा यस्य तस्मै, (धुनिव्रताय) शत्रुप्रकम्पककर्मणे, (शवसे) बलवते (शर्धाय) मारुताय वीरभटानां सैन्याय, वः मतयः वाचः (प्र प्र) अतिशयने प्रवर्तन्ताम्। यूयं विष्णुं राजानं तदीयं सैन्यगणं च प्रशंसत प्रोद्बोधयत चेत्यर्थः ॥२ क्री॒ळं वः॒ शर्धो॒ मारु॑तमनर्वा॒णं॑ रथे॒शुभ॑म्। कण्वा॑ अ॒भिप्रगा॑यत ॥ ऋ० १।३७।१, प्र वः॒ शर्धा॑य॒ धृष्व॑ये त्वे॒षद्यु॑म्नाय शु॒ष्मिणे॑। दे॒वत्तं॒ ब्रह्म॑ गायत ॥ ऋ० १।३७।४ इत्यादिवचनात् शर्धशब्देन मारुतो गण उच्यते। ते क्री॒डयो॒ धुन॑यो॒ भ्राज॑दृष्टयः स्व॒यं म॑हि॒त्वं प॑नयन्त॒ धूत॑यः ॥ ऋ० १।८७।३ इति वचनाच्च मरुतां धुनिव्रतत्वम् ॥६॥ अत्र श्लेषालङ्कारः ॥६॥
Essence
मनुष्या यदा प्राणायामेन शारीरं मानसं च मलं दग्ध्वाऽऽत्मबलं वर्द्धयन्ति तदा सर्वाः सिद्धयस्तेषां हस्तगता भवन्ति। तथैव राष्ट्रस्य वीरसैनिकाः सर्वान् रिपून् प्रकम्प्य यदा राजबलं वर्द्धयन्ति तदा राष्ट्रे सर्वा उन्नतयो विभासन्ते ॥६॥
Subject
अथ मरुतो देवताः। विष्णोर्मरुतां च साहाय्येनात्मिकं राष्ट्रियं चोत्कर्षं प्राप्तुं प्रेरयति।
Footnote
१. ऋ० ५।८७।१। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमम् ‘अथ मनुष्यान् कथं किं प्राप्नोति’ इति विषये व्याख्यातवान्।