Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 461

1875 Mantra
Devata- विश्वेदेवाः Rishi- परुच्छेपो दैवोदासिः Chhand- अत्यष्टिः Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣢स्तु꣣ श्रौ꣡ष꣢ट्पु꣣रो꣢ अ꣣ग्निं꣢ धि꣣या꣡ द꣢ध꣣ आ꣡ नु त्यच्छर्धो꣢꣯ दि꣣व्यं꣡ वृ꣢णीमह इन्द्रवा꣣यू꣡ वृ꣢णीमहे । य꣡द्ध꣢ क्रा꣣णा꣢ वि꣣व꣢स्व꣢ते꣣ ना꣡भा꣢ स꣣न्दा꣢य꣣ न꣡व्य꣢से । अ꣢ध꣣ प्र꣢ नू꣣न꣡मुप꣢꣯ यन्ति धी꣣त꣡यो꣢ दे꣣वा꣢꣫ꣳअच्छा꣣ न꣢ धी꣣त꣡यः꣢ ॥४६१॥

अ꣡स्तु꣢꣯ । श्रौ꣡ष꣢꣯ट् । पु꣣रः꣢ । अ꣣ग्नि꣢म् । धि꣣या꣢ । द꣣धे । आ꣢ । नु । त्यत् । श꣡र्धः꣢꣯ । दि꣣व्य꣢म् । वृ꣣णीमहे । इन्द्रवायू꣢ । इ꣣न्द्र । वायू꣡इति꣢ । वृ꣣णीमहे । य꣢त् । ह꣣ । क्राणा꣢ । वि꣣व꣡स्व꣢ते । वि꣣ । व꣡स्व꣢꣯ते । ना꣡भा꣢꣯ । स꣣न्दा꣡य꣢ । स꣣म् । दा꣡य꣢꣯ । न꣡व्य꣢꣯से । अ꣡ध꣢꣯ । प्र । नू꣣न꣢म् । उ꣡प꣢꣯ । य꣣न्ति । धीत꣡यः꣢ । दे꣡वा꣢न् । अ꣡च्छ꣢꣯ । न । धी꣣त꣡यः꣢ ॥४६१॥

Mantra without Swara
अस्तु श्रौषट्पुरो अग्निं धिया दध आ नु त्यच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे । यद्ध क्राणा विवस्वते नाभा सन्दाय नव्यसे । अध प्र नूनमुप यन्ति धीतयो देवाꣳअच्छा न धीतयः ॥

अस्तु । श्रौषट् । पुरः । अग्निम् । धिया । दधे । आ । नु । त्यत् । शर्धः । दिव्यम् । वृणीमहे । इन्द्रवायू । इन्द्र । वायूइति । वृणीमहे । यत् । ह । क्राणा । विवस्वते । वि । वस्वते । नाभा । सन्दाय । सम् । दाय । नव्यसे । अध । प्र । नूनम् । उप । यन्ति । धीतयः । देवान् । अच्छ । न । धीतयः ॥४६१॥

Samveda - Mantra Number : 461
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—अध्यात्मपरः। अस्तु (श्रौषट्२) अस्माकं प्रार्थनायाः श्रवणं भवतु, अस्मत्कामनाः पूर्यन्तामित्यर्थः। अहम् (अग्निम्) अग्रनेतारं परमात्मानम् (धिया) ध्यानेन (पुरः दधे) सम्मुखं स्थापयामि। वयम् (त्यत्) तद् महोपयोगि (दिव्यं शर्धः) प्रकाशपूर्णम् आत्मबलम्। शर्धः इति बलनाम। निघं० २।९। (नु) सद्यः (आ वृणीमहे) उपयुञ्ज्महे। (इन्द्रवायू) मनःप्राणौ। मन इवेन्द्रः। श० १२।९।१।१३। प्राणो हि वायुः। ता० ४।६।८। प्राणो वै वायुः। श० ४।४।१।१५। (वृणीमहे) उपयुञ्ज्महे। (यद् ह) यदा हि, तौ इन्द्रवायू मनःप्राणौ (नाभा) नाभौ, केन्द्रभूते हृत्प्रदेशे (सन्दाय३) स्वात्मानं बद्ध्वा। सं पूर्वो दातिर्बन्धने वर्तते। (नव्यसे) नवीयसे, अतिशयेन स्तुत्याय (विवस्वते४) अज्ञानान्धकारनिवारकाय आत्मने (क्राणा) क्राणौ, उच्चसंकल्पनप्राणवशीकरणादिकं कर्म कुर्वाणौ भवतः। क्राणाः कुर्वाणाः इति निरुक्तम्। ४।१९। तदा (नूनम्) निश्चयेन (धीतयः) धारणाध्यानसमाधयः (उप प्रयन्ति) योगिनः समीपमागच्छन्ति, (न) यथा (धीतयः) अङ्गुलयः। धीतय इत्यङ्गुलिनामसु पठितम्। निघं० २।५। (देवान् अच्छ) मातापित्रतिथ्यादीन् विदुषो नमस्कर्तुम् (उप प्रयन्ति) उद्युक्ता भवन्ति ॥ अथ द्वितीयः—अधिदैवतपरः। (अस्तु श्रौषट्) मदीयं वचनं श्रुतं भवेत्। अहम् (अग्निम्) भौतिकं वह्निम् (धिया) बुद्ध्या कर्मकौशलेन वा (पुरः दधे) शिल्पादिकर्मसु उपयुञ्जे। वयम् (त्यत्) तत् (दिव्यम्) दिवि भवम् (शर्धः) शर्धस्वन्तं बलवन्तं सूर्याग्निम्। अत्र मतुपो लुक्। (नु) सद्यः (आ वृणीमहे) शिल्पकर्मणि उपयुञ्ज्महे। (इन्द्रवायू) विद्युद्वातौ (वृणीमहे) शिल्पकर्मणि उपयुञ्ज्महे। (यद् ह) यदा हि, तौ इन्द्रवायू विद्युद्वातौ (नाभा) नाभौ केन्द्रभूते अन्तरिक्षे (सन्दाय) पृथिव्यादिलोकान् आकर्षणगुणेन बद्ध्वा (नव्यसे) प्रतिऋतु नवीनतराय (विवस्वते) तमोनिवारकाय सूर्याय, सूर्यं परितः इत्यर्थः (क्राणा) परिक्रमां कारयन्तौ भवतः, (अध) तदा (नूनम्) निश्चयेन (धीतयः) सूर्यकिरणाः (उपप्रयन्ति) तान् पृथिव्यादिलोकान् प्राप्नुवन्ति। शिष्टं पूर्ववत् ॥५॥५ अत्र श्लेष उपमालङ्कारश्च। ‘वृणीमह, वृणीमहे’ इत्यत्र लाटानुप्रासः। ‘धीतयो, धीतयः’ इत्यत्र यमकम् ॥५॥
Essence
यथा शिल्पविद्योन्नत्या वह्निसूर्यविद्युद्वायूनां यन्त्रयानादिषु सम्यक् प्रयोगेण मनुष्यैर्महत् सुखं प्राप्तुं शक्यते, तथैव योगविद्योन्नत्या जीवात्ममनःप्राणेन्द्रियाणां सामञ्जस्येन योगसमाधिः कैवल्यं च प्राप्तुं शक्यते ॥५॥
Subject
अथ विश्वेदेवाः देवताः। परमात्मजीवात्ममनःप्राणवह्निसूर्यवायुविद्युद्विषयमाह।
Footnote
१. ऋ० १।१३९।१, ‘आ नु तच्छर्धो’, ‘यद्ध क्राणा विवस्वति नाभा सन्दायि नव्यसी। अध प्र सू न उप यन्तु’ इति पाठः। २. अस्तु भवतु श्रौषट् श्रावणं स्तोत्रस्य। शृण्वन्तु देवाः स्तोत्रमित्यर्थः—इति भ०। ३. सन्दाय सम्यग् बद्ध्वा, स्वीकृत्य इत्यर्थः—इति भ०। सम्यग् बद्ध्वा, मिथः संयुज्य—इति सा०। ४. विवस्वते विवासयित्रे—इति वि०। विवो धनं तद्वते, हविष्मते—इति भ०। तत्तु न पदकारसम्मतम् ‘वि-वस्वते’ इति पदपाठात्। ५. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतं पुरुषार्थप्रशंसाविषये व्याख्यातवान्।