Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 460

1875 Mantra
Devata- इन्द्रः Rishi- रेभः काश्यपः Chhand- अतिजगती Swara- निषादः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त꣡मिन्द्रं꣢꣯ जोहवीमि म꣣घ꣡वा꣢नमु꣣ग्र꣢ꣳ स꣣त्रा꣡ दधा꣢꣯न꣣म꣡प्र꣢तिष्कुत꣣ꣳ श्र꣡वा꣢ꣳसि꣣ भू꣡रि꣢ । म꣡ꣳहि꣢ष्ठो गी꣣र्भि꣡रा च꣢꣯ य꣣ज्ञि꣡यो꣢ ववर्त्त रा꣣ये꣢ नो꣣ वि꣡श्वा꣢ सु꣣प꣡था꣢ कृणोतु व꣣ज्री꣢ ॥४६०॥

त꣢म् । इ꣡न्द्र꣢꣯म् । जो꣣हवीमि । मघ꣡वा꣢नम् । उ꣣ग्र꣢म् । स꣣त्रा꣢ । द꣡धा꣢꣯नम् । अ꣡प्र꣢꣯तिष्कुतम् । अ । प्र꣣तिष्कुतम् । श्र꣡वाँ꣢꣯सि꣣ । भू꣡रि꣢꣯ । मँ꣡हि꣢꣯ष्ठः । गी꣣र्भिः꣢ । आ । च꣣ । यज्ञि꣡यः꣢ । व꣣वर्त । राये꣢ । नः꣣ । वि꣡श्वा꣢꣯ । सु꣣प꣡था꣢ । सु꣣ । प꣡था꣢꣯ । कृ꣣णोतु । वज्री꣢ ॥४६०॥

Mantra without Swara
तमिन्द्रं जोहवीमि मघवानमुग्रꣳ सत्रा दधानमप्रतिष्कुतꣳ श्रवाꣳसि भूरि । मꣳहिष्ठो गीर्भिरा च यज्ञियो ववर्त्त राये नो विश्वा सुपथा कृणोतु वज्री ॥

तम् । इन्द्रम् । जोहवीमि । मघवानम् । उग्रम् । सत्रा । दधानम् । अप्रतिष्कुतम् । अ । प्रतिष्कुतम् । श्रवाँसि । भूरि । मँहिष्ठः । गीर्भिः । आ । च । यज्ञियः । ववर्त । राये । नः । विश्वा । सुपथा । सु । पथा । कृणोतु । वज्री ॥४६०॥

Samveda - Mantra Number : 460
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
अहम् (तम्) प्रसिद्धम् (मघवानम्) ऐश्वर्यवन्तम्, (उग्रम्) अन्यायेषु अन्यायिषु च प्रचण्डम्, (सत्रा दधानम्) सत्यं धारयन्तम्। सत्रा इति सत्यनाम। निघं० ३।१०। (अप्रतिष्कुतम्) अप्रतिरुद्धं शत्रुभिः। स्कुतम्, स्कुञ् आप्रवणे क्र्यादिः। (इन्द्रम्) परमात्मानं राजानम् आचार्यं वा (भूरि) भूरीणि बहूनि। ‘शेश्छन्दसि बहुलम्। अ० ६।१।७०’ इति शेर्लोपः। (श्रवांसि) यशांसि (जोहवीमि) अतिशयेन पुनः पुनः प्रार्थये। (मंहिष्ठः) दातृतमः (यज्ञियः) पूजार्हः सत्कारार्हश्च सः (गीर्भिः) उपदेशवाग्भिः सह (आ ववर्त) अस्मान् प्रति आवर्तताम्। (वज्री) अविद्याऽन्यायादिषु हिंसाऽसत्यस्तेयादिषु हिंसकेषु च उद्यतवज्रः सः (राये) ऐश्वर्याय (विश्वाः नः) सर्वान् अस्मान्। विश्वशब्दाच्छन्दसि ‘सुपां सुलुक्०’ इति विभक्तेराकारादेशः। (सुपथा) सुमार्गेण (कृणोतु) नयतु ॥४॥ अत्रार्थश्लेषालङ्कारः ॥४॥
Essence
परमेश्वरो नृपतिराचार्यश्च याननुगृह्णन्ति ते सुमार्गगामिनो यशस्विनश्च जायन्ते ॥४॥
Subject
अथ परमात्मानं राजानमाचार्यं चाभिलक्ष्य प्राह।
Footnote
१. ऋ० ८।९७।१३, अथ० २०।५५।१। उभयत्र ‘भूरि’ इति नास्ति, ‘ववर्त राये’ इत्यत्र च ‘ववर्तद्राये’ इति पाठः।