Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 46

1875 Mantra
Devata- अग्निः Rishi- भर्गः प्रागाथः Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
शे꣢षे꣣ वने꣡षु꣢ मा꣣तृ꣢षु꣣ सं꣢ त्वा꣣ म꣡र्ता꣢स इन्धते । अ꣡त꣢न्द्रो ह꣣व्यं꣡ व꣢हसि हवि꣣ष्कृ꣢त꣣ आ꣢꣫दिद्दे꣣वे꣡षु꣢ राजसि ॥४६॥

शे꣡षे꣢꣯ । व꣡ने꣢꣯षु । मा꣣तृ꣡षु꣢ । सम् । त्वा꣣ । म꣡र्ता꣢꣯सः । इ꣣न्धते । अ꣡त꣢꣯न्द्रः । अ । त꣣न्द्रः । ह꣣व्यम् । व꣣हसि । हविष्कृ꣡तः꣢ । ह꣣विः । कृ꣡तः꣢꣯ । आत् । इत् । दे꣣वे꣡षु꣢ । रा꣣जसि ॥४६॥

Mantra without Swara
शेषे वनेषु मातृषु सं त्वा मर्तास इन्धते । अतन्द्रो हव्यं वहसि हविष्कृत आदिद्देवेषु राजसि ॥

शेषे । वनेषु । मातृषु । सम् । त्वा । मर्तासः । इन्धते । अतन्द्रः । अ । तन्द्रः । हव्यम् । वहसि । हविष्कृतः । हविः । कृतः । आत् । इत् । देवेषु । राजसि ॥४६॥

Samveda - Mantra Number : 46
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—यज्ञाग्निपरः। हे यज्ञाग्ने ! त्वम् (वनेषु) काननेषु, तत्काष्ठे- ष्विति यावत्, (मातृषु) मातृभूतासु अरणीषु च (शेषे२) स्वपिषि, प्रच्छन्नरूपेण विद्यमानो भवसि। (त्वा) त्वाम् (मर्तासः) याज्ञिका मनुष्याः (समिन्धते) अरणिमन्थनद्वारा प्रदीपयन्ति। (प्रदीप्तः) त्वम् (अतन्द्रः) अनलसः सन् (हव्यम्) हुतं हविर्द्रव्यम् (वहसि) स्थानान्तरं प्रापयसि। (आत्३ इत्) तदनन्तरमेव त्वम् (देवेषु) विद्वज्जनेषु (राजसि) राजवत् प्रशंसितो भवसि ॥ अत्र अचेतने यज्ञाग्नौ चेतनवद् व्यवहार आलङ्कारिकः। अचेतने शयनतन्द्रयोः सम्बन्धासंभवात् शयनस्य प्रच्छन्नरूपेण विद्यमानत्वे लक्षणा, अतन्द्रत्वस्य नैरन्तर्ये लक्षणा। वनेषु शेषे इत्यनेन च अग्नेर्मुनित्वं व्यङ्ग्यम् ॥ अथ द्वितीयः—परमात्मपरः। हे अग्ने परमात्मन् ! त्वम् (वनेषु) विपिनेषु, (मातृषु) तन्मातृभूतासु नदीषु च। मातर इति नदीनाम। निघं० १।१३। (शेषे) स्वपिषि, अदृश्यतया विद्यमानोऽसि। (त्वा) त्वाम् (मर्तासः) मनुष्याः, योगाभ्यासिनो जनाः (समिन्धते) संदीपयन्ति, जागरयन्ति, योगसाधनाद्वारा साक्षात्कुर्वन्तीत्यर्थः। उक्तं चान्यत्र—उपह्वरे गिरीणां सङ्गमे च नदीनाम्। धिया विप्रो अजायत ॥ साम० १४३ इति। त्वं च (अतन्द्रः) निद्राप्रमादालस्यादिरहितः सन्, तेषाम् (हव्यम्) आत्मसमर्पणरूपं हविः (वहसि) स्वीकरोषि। (आत् इत्) तदनन्तरमेव त्वम् (देवेषु) विद्वत्सु तेषु योगिजनेषु, तज्जीवनेषु (राजसि) विशेषेण राजमानो भवसि ॥ अत्रापि परमात्मनो निराकारत्वात् तत्र शयनसमिन्धनधर्मौ नोपपद्येते इति शयनस्य गूढतया विद्यमानत्वे समिन्धनस्य च योगसाक्षात्कारे लक्षणा ॥ अत्र श्लेषालङ्कारः। भौतिकाग्निपरमात्माग्न्योरुपमानोपमेयभावश्च द्योत्यते ॥२॥
Essence
यथा भौतिकाग्निर्वनकाष्ठेष्वरणिषु वादृश्यः सन् स्वपितीव, अरण्योर्मन्थनेन च यज्ञकुण्डे प्रदीप्यते, तथा परमेश्वरोऽपि काननानां तरुलतापत्रपुष्पसरित्सरोवरादिसौन्दर्ये प्रयच्छन्नस्तिष्ठति, तत्र ध्यान- परायणैर्योगिभिर्हृदये प्रदीप्यते च। यथा यज्ञवेद्यां प्रदीपितो भौतिकाग्निः सुगन्धिमिष्टपुष्ट्यारोग्यवर्द्धकं घृतकस्तूरीकेसरकन्द- द्राक्षाक्षोटखर्जूरसोमलतागुडूच्यादिकं हुतं हविर्द्रव्यं वायुमाध्यमेन स्थानान्तरं प्रापय्य तत्रारोग्यं वर्द्धयति, तथा परमेश्वर उपासका- नामात्समर्पणरूपं हव्यं स्वीकृत्य तेषु सद्गुणान् संवर्द्धयति ॥२॥
Subject
अथ भौतिकाग्निसादृश्येन परमात्मनः कृत्यं वर्ण्यते।
Footnote
१. ऋ० ८।६०।१५। मातृषु, हव्यं इत्यत्र क्रमेण मात्रोः, हव्या इति पाठः। २. शेषे गूढः तिष्ठसि, वनेषु अरण्येषु, काष्ठेषु इत्यर्थः, मातृषु अरणीषु—इति भ०। शेषः इत्यपत्यनाम, तस्मादियं निमित्तसप्तमी। चर्मणि द्वीपिनं हन्ति’ (म० भा० २।३।३६) इति यथा। अपत्ये निमित्तिभूते, अपत्यार्थमित्यर्थः—इति वि०। ३. आत् इत् तदानीमेव—इति भ०। आत् इत् द्वावपि पादपूरणौ—इति वि०।