Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 459

1875 Mantra
Devata- इन्द्रः Rishi- परुच्छेपो दैवोदासिः Chhand- अत्यष्टिः Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
ए꣡न्द्र꣢ या꣣ह्यु꣡प꣢ नः परा꣣व꣢तो꣣ ना꣡यमच्छा꣢꣯ वि꣣द꣡था꣢नीव꣣ स꣡त्प꣢ति꣣र꣢स्ता꣣ रा꣡जे꣢व꣣ स꣡त्प꣢तिः । ह꣡वा꣢महे त्वा꣣ प्र꣡य꣢स्वन्तः सु꣣ते꣢꣫ष्वा पु꣣त्रा꣢सो꣣ न꣢ पि꣣त꣢रं꣣ वा꣡ज꣢सातये꣣ म꣡ꣳहि꣢ष्ठं꣣ वा꣡ज꣢सातये ॥४५९॥

आ꣢ । इ꣣न्द्र । याहि । उ꣡प꣢꣯ । नः । परा꣣व꣢तः । न । अ꣣य꣢म् । अ꣡च्छ꣢꣯ । वि꣣द꣡था꣢नि । इ꣣व । स꣡त्प꣢꣯तिः । सत् । प꣣तिः । अ꣡स्ता꣢꣯ । रा꣡जा꣢꣯ । इ꣣व । स꣡त्प꣢꣯तिः । सत् । प꣣तिः । ह꣡वा꣢꣯महे । त्वा꣣ । प्र꣡य꣢स्वन्तः । सु꣣ते꣡षु꣢ । आ । पु꣣त्रा꣡सः꣢ । पु꣣त् । त्रा꣡सः꣢꣯ । न । पि꣣त꣡र꣢म् । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । म꣡ꣳहि꣢꣯ष्ठम् । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये ॥४५९॥

Mantra without Swara
एन्द्र याह्युप नः परावतो नायमच्छा विदथानीव सत्पतिरस्ता राजेव सत्पतिः । हवामहे त्वा प्रयस्वन्तः सुतेष्वा पुत्रासो न पितरं वाजसातये मꣳहिष्ठं वाजसातये ॥

आ । इन्द्र । याहि । उप । नः । परावतः । न । अयम् । अच्छ । विदथानि । इव । सत्पतिः । सत् । पतिः । अस्ता । राजा । इव । सत्पतिः । सत् । पतिः । हवामहे । त्वा । प्रयस्वन्तः । सुतेषु । आ । पुत्रासः । पुत् । त्रासः । न । पितरम् । वाजसातये । वाज । सातये । मꣳहिष्ठम् । वाजसातये । वाज । सातये ॥४५९॥

Samveda - Mantra Number : 459
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमैश्वर्यवन् परमात्मन् विद्यैश्वर्ययुक्त आचार्य वा ! (अयम्) एष त्वम् (नः अच्छ) अस्मान् प्रति (उप आ याहि) उपागच्छ, (परावतः न) यथा कश्चिद् दूरदेशादुपागच्छति तद्वत्, किञ्च, (सत्पतिः) श्रेष्ठो गृहपतिः (विदथानि इव) यथा यज्ञान् उपागच्छति तद्वत्। विदथ इति यज्ञनाम। निघं० ३।१७। अपिच (सत्पतिः) सतां पालकः (राजा) नृपतिः (अस्ता इव) यथा अस्तम् आस्थानगृहम् उपागच्छति तद्वत्। अस्तमिति गृहनाम। निघं० ३।४। ‘सुपां सुलुक्’ इति विभक्तेराकारादेशः। सत्पतिः इत्यत्र ‘पत्यावैश्वर्ये। अ० ६।२।१८’ इति तत्पुरुषे पूर्वपदप्रकृतिस्वरः। (प्रयस्वन्तः२) प्रयत्नवन्तो वयम् (त्वा) त्वाम् (सुतेषु) आनन्दरसेषु वीररसेषु विद्यारसेषु च निमित्तेषु। अत्र निमित्तार्थे सप्तमी। (आ हवामहे) आह्वयामः। (पुत्रासः न) पुत्राः यथा (पितरम्) जनकम् (वाजसातये) अन्नप्राप्तये आह्वयन्ति तथा (मंहिष्ठम्) धनविद्यादीनां दातृतमम् त्वाम्। मंहते दानकर्मा। निघं० ३।२०। अतिशयेन मंहिता मंहिष्ठः। वयम् (वाजसातये) धनबलविद्यादिप्राप्तये आह्वयामः ॥३॥३ अत्र चतस्र उपमाः। ‘सत्पति’, ‘वाजसातये’ इत्यनयोः सकृदावृत्तौ च यमकम् ॥३॥
Essence
जगदीश्वरो गुरवश्च यस्यानुकूला भवन्ति स सर्वं विपत्समूहमुत्तीर्य परमैश्वर्याणि लभते ॥३॥
Subject
अथेन्द्रनाम्ना परमात्मानमाचार्यं चाह्वयति।
Footnote
१. ऋ० १।१३०।१, ‘रस्ता’, ‘त्वा प्रयस्वन्तः सुतेष्वा’ इत्यत्र क्रमेण ‘रस्तं’, ‘त्वा वयं प्रयस्वन्तः सुते सचा’ इति पाठः। २. (प्रयस्वन्तः) बहुप्रयत्नशीलाः इति ऋ० १।१३०।१ भाष्ये द०। ३. ऋग्भाष्ये दयानन्दर्षिर्ऋचमिमां राजप्रजाविषये व्याख्यातवान्।