Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 458

1875 Mantra
Devata- सूर्यः Rishi- गौराङ्गिरसः Chhand- अतिजगती Swara- निषादः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣣य꣢ꣳ स꣣ह꣢स्र꣣मा꣡न꣢वो दृ꣣शः꣡ क꣢वी꣣नां꣢ म꣣ति꣢꣫र्ज्योति꣣र्वि꣡ध꣢र्म । ब्र꣣ध्नः꣢ स꣣मी꣡ची꣢रु꣣ष꣢सः꣣ स꣡मै꣢रयदरे꣣प꣢सः꣣ स꣡चे꣢त꣣सः स्व꣡स꣢रे मन्यु꣣म꣡न्त꣢श्चि꣣ता꣢ गोः ॥४५८॥

अ꣣य꣢म् । स꣣ह꣡स्र꣢म् । आ꣡न꣢꣯वः । दृ꣣शः꣢ । क꣣वीना꣢म् । म꣣तिः꣢ । ज्यो꣡तिः꣢꣯ । वि꣡ध꣢꣯र्म । वि । ध꣣र्म । ब्रध्नः꣢ । स꣣मी꣡चीः꣢ । स꣣म् । ई꣡चीः꣢꣯ । उ꣣ष꣡सः꣢ । सम् । ऐ꣣रयत् । अरेप꣡सः꣢ । अ꣣ । रेप꣡सः꣢ । स꣡चे꣢꣯तसः । स । चे꣣तसः । स्व꣡स꣢꣯रे । म꣣न्युम꣡न्तः꣢ । चि꣣ताः꣢ । गोः ॥४५८॥

Mantra without Swara
अयꣳ सहस्रमानवो दृशः कवीनां मतिर्ज्योतिर्विधर्म । ब्रध्नः समीचीरुषसः समैरयदरेपसः सचेतसः स्वसरे मन्युमन्तश्चिता गोः ॥

अयम् । सहस्रम् । आनवः । दृशः । कवीनाम् । मतिः । ज्योतिः । विधर्म । वि । धर्म । ब्रध्नः । समीचीः । सम् । ईचीः । उषसः । सम् । ऐरयत् । अरेपसः । अ । रेपसः । सचेतसः । स । चेतसः । स्वसरे । मन्युमन्तः । चिताः । गोः ॥४५८॥

Samveda - Mantra Number : 458
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अयम्) एष सूर्यः परमेश्वर आचार्यो वा (सहस्रम्) एकोऽपि सन् शक्त्या सहस्रतुल्यः (आनवः२) अनुभ्यो मनुष्येभ्यो हितः। अनवः इति मनुष्यनामसु पठितम्। निघं० २।–३, तेभ्यो हितः। (दृशः) द्रष्टा दर्शयिता वा, (कवीनाम्) विदुषाम् (मतिः) मतिप्रदाता (विधर्म ज्योतिः) विशेषधारकप्रकाशश्च वर्तते। (ब्रध्नः) महान् एषः। ब्रध्न इति महन्नाम। निघं० ३।३। (समीचीः) सम्यगञ्चनाः, (अरेपसः) निर्मलाः (उषसः) प्रभातदीप्तीः ज्ञानदीप्तीर्वा (समैरयत्) सम्यक् प्रेरयति, येन (स्वसरे) उज्ज्वले दिवसे, दिवसवदुज्ज्वले विवेके वा जाते सति। स्वसराणि अहानि भवन्ति स्वयंसारीणि, अपि वा स्वः आदित्यो भवति स एनानि सारयति। निरु० ५।४। (सचेतसः) सहृदयाः जनाः (मन्युमन्तः) तेजोयुक्ताः ब्रह्मवर्चस्विनो वा सन्तः (गोः) किरणसमूहस्य वेदवाचो वा (चिताः) ज्ञातारः, भवन्तीति शेषः। चिती संज्ञाने धातोः ‘इगुपधज्ञाप्रीकिरः कः। अ० ३।१।१३५’ इति कः प्रत्ययः ॥२॥३ अत्र श्लेषालङ्कारः। मतिः, ज्योतिः इत्यनयोः क्रमेण मतिप्रदातरि ज्योतिष्मति च लक्षणा। ‘तिर्, तिर्’, ‘समी, समै’, ‘चेत, चिता’ इत्यत्र छेकानुप्रासः, सकाररेफतकाराणां पृथक् पृथगसकृदावृत्तौ च वृत्त्यनुप्रासः ॥२॥
Essence
यथा सूर्यः प्रकाशवतीरुषसः प्रेरयति तथैव परमेश्वर आचार्यश्च जनेषु विद्याविवेककान्तीर्जनयतः ॥२॥
Subject
अथ सूर्यो देवता। आदित्यं, परमेश्वरम्, आचार्यं च वर्णयति।
Footnote
१. अथ० ७।२२।१, २। ऋषिः ब्रह्मा, देवता ब्रध्नः। अयं सहस्रमा नो दृशे कवीनां मतिर्ज्योतिर्विधर्मणि ॥१॥ ब्रध्नः समीचीरुषसः समैरयन्। अरेपसः सचेतसः स्वसरे मन्युमत्तमाश्चिते गोः ॥२॥ इति पाठः। २. ‘सहस्रमानवः सहस्रसंख्याकाः मनुष्या यस्य सः। सहस्रसंख्याकैर्मनुष्यैरिवावस्थितै रश्मिभिर्युक्तः’ इति सायणीयं व्याख्यानं तु पदकारविरुद्धं ‘सहस्रम् आनवः’ इति पदपाठात्, स्वरविरुद्धं च। ३. तेजस्विनः चन्द्रमःप्रभृतयः गोः आदित्यात् चिताः उपचिताः भवन्ति तेजसा—इति भ०। तेजस्विनश्चन्द्रमःप्रभृतयः गोः आदित्यस्य तेजसा चिताः अपचिताः भवन्ति, विगततेजस्का भवन्तीत्यर्थः—इति सा०।