Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 457

1875 Mantra
Devata- इन्द्रः Rishi- गृत्समदः शौनकः Chhand- अष्टिः Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त्रि꣡क꣢द्रुकेषु महि꣣षो꣡ यवा꣢꣯शिरं तुविशु꣣ष्म꣢स्तृ꣣म्प꣡त्सोम꣢꣯मपिब꣣द्वि꣡ष्णु꣢ना सु꣣तं꣡ य꣢थाव꣣श꣢म् । स꣡ ईं꣢ ममाद꣣ म꣢हि꣣ क꣢र्म꣣ क꣡र्त्त꣢वे म꣣हा꣢मु꣣रु꣡ꣳ सैन꣢꣯ꣳ सश्चद्दे꣣वो꣢ दे꣣व꣢ꣳ स꣣त्य꣡ इन्दुः꣢꣯ स꣣त्य꣡मिन्द्र꣢꣯म् ॥४५७॥

त्रि꣡क꣢꣯द्रुकेषु । त्रि । क꣣द्रुकेषु । महिषः꣢ । य꣡वा꣢꣯शिरम् । य꣡व꣢꣯ । आ꣣शिरम् । तुविशुष्मः꣢ । तु꣣वि । शुष्मः꣢ । तृ꣣म्प꣢त् । सो꣡म꣢꣯म् । अ꣣पिबत् । वि꣡ष्णु꣢꣯ना । सु꣣त꣢म् । य꣣थावश꣢म् । य꣣था । वश꣢म् । सः । ई꣣म् । ममाद । म꣡हि꣢꣯ । क꣡र्म꣢꣯ । क꣡र्त्त꣢꣯वे । म꣣हा꣢म् । उ꣣रु꣢म् । स । ए꣣नम् । सश्चत् । देवः꣢ । दे꣣व꣢म् । स꣣त्यः꣢ । इ꣡न्दुः꣢꣯ । स꣣त्य꣢म् । इ꣡न्द्र꣢꣯म् ॥४५७॥

Mantra without Swara
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशम् । स ईं ममाद महि कर्म कर्त्तवे महामुरुꣳ सैनꣳ सश्चद्देवो देवꣳ सत्य इन्दुः सत्यमिन्द्रम् ॥

त्रिकद्रुकेषु । त्रि । कद्रुकेषु । महिषः । यवाशिरम् । यव । आशिरम् । तुविशुष्मः । तुवि । शुष्मः । तृम्पत् । सोमम् । अपिबत् । विष्णुना । सुतम् । यथावशम् । यथा । वशम् । सः । ईम् । ममाद । महि । कर्म । कर्त्तवे । महाम् । उरुम् । स । एनम् । सश्चत् । देवः । देवम् । सत्यः । इन्दुः । सत्यम् । इन्द्रम् ॥४५७॥

Samveda - Mantra Number : 457
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—सूर्यचन्द्रपरः। (त्रिकद्रुकेषु२) त्रीणि कद्रुकाणि वायुविद्युत्पर्जन्याख्यानि येषु तेषु अन्तरिक्षभागेषु (महिषः) महान्। महिष इति महन्नाम। निघं० ३।३। (तुविशुष्मः) बहुबलः सूर्यरूपः इन्द्रः। तुवि इति बहुनाम। निघं० ३।१। शुष्म इति बलनाम। निघं० २।९। (यवाशिरम्) यवैः संयोगवियोगं प्राप्तैः सूर्यकिरणैः आशीः परिपाकः पूर्णता यस्य तम् (सोमम्) चन्द्रमसम् (तृम्पत्) तर्पयति। तृम्प तृप्तौ, तुदादिः। चन्द्रमाश्च (विष्णुना) व्याप्तिमता सूर्येण (सुतम्) उत्पादितं किरणसमूहम् (यथावशम्) यथेच्छम्। वशः अभिलाषः। वश कान्तौ। (अपिबत्) पिबति। (सः) चन्द्रमसं प्रविष्टः सूर्यकिरणसमूहः (महाम्) गुणैर्महान्तम् (उरुम्) विशालम् (ईम्) एनं चन्द्रमसम्। ईम् एनम्। निरु० १०।४५। (महि) महत् (कर्म) प्रकाशनप्राणप्रदानचान्द्रमासनिर्माणादिकं कार्यम् (कर्तवे) कर्तुम् (ममाद) हर्षयति। (सः) असौ (देवः) प्रकाशमानः (सत्यः) सत्यनियमः (इन्दुः) चन्द्रमाः (एनम्) इमम् (देवम्) प्रकाशकम् (सत्यम्) सत्यनियमम् (इन्द्रम्) सूर्यम् (सश्चत्) सेवते ॥३ अथ द्वितीयः—गुरुशिष्यपरः। (त्रिकद्रुकेषु) त्रीणि कद्रुकाणि सवनानि ज्ञानकर्मोपासनाकाण्डरूपाणि येषु तेषु शिक्षायज्ञेषु (महिषः) महान्, (तुविशुष्मः) विद्यार्थिनः बहुप्रतिभाबलः आत्मा (तृम्पत्) तृप्यन् (विष्णुना) व्याप्तविद्येन आचार्येण। वेवेष्टि व्याप्नोति सर्वा विद्याः सर्वाणि शास्त्राणि वा यः स विष्णुः आचार्यः। (सुतम्) अभिषुतम्, (यवाशिरम्) यवैः व्रतपालनरूपैः कर्मभिः आशिरम् पक्वम्। यवाः कर्माणि, यु मिश्रणामिश्रणयोः, आशिर् श्रीञ् पाके। (सोमम्) ज्ञानरसम् (यथावशम्) यथेच्छम् (अपिबत्) पिबति। (सः) पीतः ज्ञानरसः (महाम्) विद्यया महान्तम् (उरुम्) विशालहृष्टपुष्टशरीरम् (ईम्) एनं विद्यार्थिनः आत्मानम् (महि) महत् (कर्म) समाजसुधारादिकार्यम् (कर्तवे) कर्तुम् (ममाद) हर्षयति। (सत्यः) अवितथः (देवः) दिव्यगुणः (सः) असौ (इन्द्रः) विद्यारसः (देवम्) दिव्यगुणम्, (सत्यम्) सत्यप्रियम् (इन्द्रम्) आत्मानम् (सश्चत्) निरन्तरं प्राप्नोति। सश्चतिः गतिकर्मा। निघं० २।१४। सैनम् इत्यत्र ‘सः एनम्’ इत स्थिते ‘सोऽचि लोपे चेत् पादपूरणम्’। अ० ६।१।१३४ इत्यनेन सुलोपे वृद्धिरेकादेशः ॥१॥ अत्र श्लेषालङ्कारः। ‘देवो, देवं’ इत्यत्र छेकानुप्रासः। ‘सत्य, सत्य’ इति यमकम् ॥१॥
Essence
छात्रस्यात्मा गुरोः सकाशाज्ज्ञानरसं पीत्वा तथैव महान्ति कर्माणि कर्तुं योग्यो जायते यथा चन्द्रः सूर्यस्य सकाशात् प्रकाशं पीत्वा प्राणप्रदानादीनि महान्ति कर्माणि करोति ॥१॥
Subject
तत्राद्ये मन्त्रे सूर्यचन्द्रसम्बन्धवर्णनपूर्वकं गुरोः सकाशाज्ज्ञानरसरूपं सोमं पातुमाह।
Footnote
१. ऋ० २।२२।१, अथ० २०।९५।१। उभयत्र ‘तृम्पत्’, ‘सत्य इन्दुः सत्यमिन्द्रम्’ अस्य स्थाने क्रमेण ‘तृपत्’, ‘सत्यमिन्द्रं सत्य इन्दुः’ इति पाठः। साम० १४८६। २. त्रिकद्रुकेषु ज्योतिर्गौरायुरित्येतन्नामकेषु अभिप्लाविकेष्वहःसु—इति सा०। अत्र कदि धातोरौणादिकः क्रुन् प्रत्ययः, पुनः समासान्तः कप् च—इति ऋ० १।३२।३ भाष्ये द०। कदि वैक्लव्ये, भ्वादिः। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतं सूर्यचन्द्रविषये व्याख्यातवान्।