Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 455

1875 Mantra
Devata- विश्वेदेवाः Rishi- आत्रेयः Chhand- द्विपदा त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
ऊ꣣र्जा꣢ मि꣣त्रो꣡ वरु꣢꣯णः पिन्व꣣ते꣢डाः꣣ पी꣡व꣢री꣣मि꣡षं꣢ कृणु꣣ही꣡ न꣢ इन्द्र ॥४५५

ऊ꣣र्जा꣢ । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । व꣡रु꣢꣯णः । पि꣣न्वत । इ꣡डाः꣢꣯ । पी꣡व꣢꣯रीम् । इ꣡ष꣢꣯म् । कृ꣣णुहि꣢ । नः꣣ । इन्द्र ॥४५५॥

Mantra without Swara
ऊर्जा मित्रो वरुणः पिन्वतेडाः पीवरीमिषं कृणुही न इन्द्र ॥४५५

ऊर्जा । मित्रः । मि । त्रः । वरुणः । पिन्वत । इडाः । पीवरीम् । इषम् । कृणुहि । नः । इन्द्र ॥४५५॥

Samveda - Mantra Number : 455
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मादिपरः। हे (इन्द्र) परमैश्वर्यशालिन् परमात्मन् ! त्वम्, (मित्रः) सूर्यः, (वरुणः) वायुश्च संभूय (ऊर्जा) रसेन। ऊर्ग् वा आपो रसः। कौ० ब्रा० १२।१। (इडाः) भूमीः। इडा इति पृथिवीनाम। निघं० १।१। (पिन्वत) सिञ्चत। पिवि सेवने सेचने च, भ्वादिः। हे इन्द्र परमात्मन् ! त्वम् (नः) अस्मभ्यम् (पीवरीम्) स्थूलां, प्रचुरामित्यर्थः (इषम्) सस्यसम्पदम् (कृणुहि) कुरु, येन वयं दुर्भिक्षादिभिर्न पीड्येमहि ॥ अथ द्वितीयः—शरीरपरः। हे (इन्द्र) मदीय जीवात्मन् ! त्वम्, (मित्रः) प्राणः, (वरुणः) अपानश्च। प्राणापानौ मित्रावरुणौ। तां० ब्रा० ६।१०।५। संभूय (ऊर्जा) बलेन। ऊर्ज बलप्राणनयोः, चुरादिः। (इडाः) मधुरा वाचः। इडा इति वाङ्नाम। निघं० १।११। (पिन्वत) प्रेरयत। हे मदीय अन्तरात्मन् ! त्वम् (नः) अस्मभ्यम् (पीवरीम्) प्रचुराम् (इषम्) ज्ञानसम्पत्तिम् (कृणुहि) कुरु ॥ अथ तृतीयः—राष्ट्रपरः। हे (इन्द्र) ऐश्वर्यवन् राजन् ! त्वम्, (मित्रः) अमात्यः, (वरुणः) सेनापतिश्च, संभूय (ऊर्जा) अन्नेन सह। ऊर्क् इति अन्ननाम। निघं० २।७। (इडाः) भूमीः धेनूश्च। इडा इति पृथिवीनाम गोनाम च। निघं० १।१, २।११। (पिन्वत) बाहुल्येन प्रयच्छत। हे इन्द्र राजन् ! त्वम् (इषम्) प्रजाम्। प्रजा वा इषः। श० १।७।३।१४। (पीवरीम्) समृद्धाम् (कृणुहि) कुरु ॥९॥ अत्र श्लेषालङ्कारः ॥९॥
Essence
परमात्मा जीवात्मा नृपतिश्च मनोबुद्धिप्राणापानसूर्यवायुसचिव- सेनापत्यादिभिः सह संभूय भोज्यपेयबलवाग्भूमिधेन्वादिसम्पद्भिः सर्वान् समृद्धान् कुर्वन्तु ॥९॥
Subject
अथ विश्वेदेवा देवताः। इन्द्रमित्रवरुणा अस्मभ्यं किं कुर्वन्त्वित्याह।