Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 454

1875 Mantra
Devata- इन्द्रः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- द्विपदा त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣣या꣡ वाजं꣢꣯ दे꣣व꣡हि꣢तꣳ सनेम꣣ म꣡दे꣢म श꣣त꣡हि꣢माः सु꣣वी꣡राः꣢ ॥४५४॥

अ꣣या꣢ । वा꣡ज꣢꣯म् । दे꣣व꣡हि꣢तम् । दे꣣व꣢ । हि꣣तम् । सनेम । म꣡दे꣢꣯म । श꣣त꣡हि꣢माः । श꣣त꣢ । हि꣣माः । सुवी꣡राः꣢ । सु꣣ । वी꣡राः꣢꣯ ॥४५४॥

Mantra without Swara
अया वाजं देवहितꣳ सनेम मदेम शतहिमाः सुवीराः ॥

अया । वाजम् । देवहितम् । देव । हितम् । सनेम । मदेम । शतहिमाः । शत । हिमाः । सुवीराः । सु । वीराः ॥४५४॥

Samveda - Mantra Number : 454
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र परमात्मन् मदीय अन्तरात्मन् राजन् वा ! वयम् (अया२) अनया तन्वा अनया धिया३ वा (देवहितम्४) देवेभ्यो विद्वद्भ्य इन्द्रियेभ्यो वा हितं हितकरम् (वाजम्) धनं बलं विज्ञानं वा (सनेम) लभेमहि, किञ्च (सुवीराः) शोभनवीरोपेताः वयम् (शतहिमाः) शतवर्षाणि (मदेम) हृष्येम ॥८॥५
Essence
तदेव धनं बलं विज्ञानं वा श्रेष्ठं यत् परोपकारे प्रयुज्यते। तत् प्राप्य न्यूनान्न्यूनं शतवर्षजीविनः सर्वे स्त्रीपुरुषा भवेयुः ॥८॥
Subject
अथेन्द्रो देवता। तस्माद् धनादिकमाशंसते।
Footnote
१. ऋ० ६।१७।१५। अथर्ववेदेऽपि १९।१२।१; २०।६३।३, २०।१२४।६ इत्यत्र उत्तरार्द्धत्वेन प्राप्यते। २. (अया) अनया नीत्या इति ऋ० ६।१७।१५ भाष्ये द०। अनया स्तुत्या—इति वि०, भ०, सा०। ३. अया धिया वामभाजः स्याम। ऋ० ६।७१।६ इति श्रुतेः। ४. देवहितं देवैः स्थापितम्—इति वि०। देवेन इन्द्रेण हितं दत्तम्—इति भ०। ५. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं कीदृशी राजनीतिर्भवेदिति विषये व्याख्यातवान्।