Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 453

1875 Mantra
Devata- विश्वेदेवाः Rishi- कवष ऐलूषः Chhand- द्विपदा गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
वि꣢ स्रु꣣त꣢यो꣣ य꣡था꣢ प꣣थ꣢꣫ इन्द्र꣣ त्व꣡द्य꣢न्तु रा꣣त꣡यः꣢ ॥४५३॥

वि꣢ । स्रु꣣त꣡यः꣢ । य꣡था꣢꣯ । प꣣थः꣢ । इ꣡न्द्र꣢꣯ । त्वत् । य꣣न्तु । रात꣡यः꣢ ॥४५३॥

Mantra without Swara
वि स्रुतयो यथा पथ इन्द्र त्वद्यन्तु रातयः ॥

वि । स्रुतयः । यथा । पथः । इन्द्र । त्वत् । यन्तु । रातयः ॥४५३॥

Samveda - Mantra Number : 453
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे विश्वेदेवाः सर्वे विद्वांसः, अथ च हे (इन्द्र) परमैश्वर्यवन् जगदीश्वर, जीवात्मन्, राजन् वा ! (त्वत्) तव सकाशात् (रातयः) दानानि (वि यन्तु) विविधं गच्छन्तु, (यथा) येन प्रकारेण (पथः२) राजमार्गात् (स्रुतयः) लघुमार्गाः, वियन्ति विभिन्नदिशासु गच्छन्ति तद्वत् ॥७॥ अत्रोपमालङ्कारः ॥७॥
Essence
परमेश्वराज्जीवात्मनो नृपतेश्च धनधर्मसत्याहिंसान्यायविद्यादया- दाक्षिण्यस्वास्थ्यदीर्घायुष्यादीनि दानानि प्राप्य वयं श्रेष्ठा नागरिका भवेम ॥७॥
Subject
अथ विश्वेषां देवानाम् इन्द्रस्य च दानानि प्रार्थ्यन्ते।
Footnote
१. साम० १७७०। २. ‘पथा’ इति संहितायां पाठान्तरम्।