Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 452

1875 Mantra
Devata- विश्वेदेवाः Rishi- भुवन आप्त्यः साधनो वा भौवनः Chhand- द्विपदा पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣣मा꣢꣫ नु कं꣣ भु꣡व꣢ना सीषधे꣣मे꣡न्द्र꣢श्च꣣ वि꣡श्वे꣢ च दे꣣वाः꣢ ॥४५२॥

इ꣣मा꣢ । नु । क꣣म् । भु꣡व꣢꣯ना । सी꣣षधेम । इ꣡न्द्रः꣢꣯ । च꣣ । वि꣡श्वे꣢꣯ । च꣣ । देवाः꣢ ॥४५२॥

Mantra without Swara
इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः ॥

इमा । नु । कम् । भुवना । सीषधेम । इन्द्रः । च । विश्वे । च । देवाः ॥४५२॥

Samveda - Mantra Number : 452
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—अध्यात्मपरः। वयम् (इन्द्रः च) द्रष्टा अस्माकं जीवात्मा च (विश्वे देवाः च) सर्वाणि ज्ञानप्रकाशकानि मनोबुद्धिज्ञानेन्द्रियाणि च (इमा भुवना) इमानि भुवनानि अन्नमयप्राणमयादिकोशरूपाणि (कम्) सुखपूर्वकम् (सीषधेम) प्रसाधयेम। सीषधाति प्रसादयतु इति यास्कः। निरु० ५।१२। साध्नोतेर्णिजन्ताल्लिङर्थे लुङि छान्दसः अडभावः ॥ अथ द्वितीयः—राष्ट्रपरः। वयं प्रजाजनाः, (इन्द्रः च) वीरो राजनीतिविद् राजा च, (विश्वे देवाः च) सर्वे विद्वांसः राजसभासदश्च, सर्वे संभूय (इमा भुवना) राष्ट्रस्य इमानि सर्वाणि नगराणि (कम्) सुखपूर्वकम् (सीषधेम) प्रसाधयेम, समर्धयेम वा ॥६॥ अत्र श्लेषालङ्कारः ॥६॥
Essence
जीवात्ममनोबुद्ध्यादीनां साहाय्येन शारीरं, नृपत्यमात्यसभासदादीनां साहाय्येन राष्ट्रियं चोत्कर्षं संसाध्य सर्वे सफलजन्मानो जायन्ताम् ॥६॥
Subject
अथ द्वयोः विश्वेदेवाः देवताः। भुवनप्रसाधनविषयमाह।
Footnote
१. ऋ० १०।१५७।१, ऋषिः भुवन आप्त्यः साधनो वा भौवनः। ‘सीषधामेन्द्रश्च’ इति पाठः। य० २५।४६ इत्यत्र, अथ० २०।६३।१, २०।१२४।४ इत्यत्र च पूर्वभागरूपेण प्राप्यते।