Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 451

1875 Mantra
Devata- उषाः Rishi- संवर्त आङ्गिरसः Chhand- द्विपदा विराट् Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
उ꣣षा꣢꣫ अप꣣ स्व꣢सु꣣ष्ट꣢मः꣣ सं꣡ व꣢र्त्तयति वर्त꣣नि꣡ꣳ सु꣢जा꣣त꣡ता꣢ ॥४५१

उ꣣षाः꣢ । अ꣡प꣢꣯ । स्व꣡सुः꣢꣯ । त꣡मः꣢꣯ । सम् । व꣣र्त्तयति । वर्त्तनि꣢म् । सु꣣जात꣡ता꣢ । सु꣣ । जात꣣ता꣢ ॥४५१॥१

Mantra without Swara
उषा अप स्वसुष्टमः सं वर्त्तयति वर्तनिꣳ सुजातता ॥४५१

उषाः । अप । स्वसुः । तमः । सम् । वर्त्तयति । वर्त्तनिम् । सुजातता । सु । जातता ॥४५१॥१

Samveda - Mantra Number : 451
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
यथा (उषाः) प्रभातदीप्तिः (स्वसुः) स्वभगिन्याः रात्र्याः (तमः) अन्धकारम् (अप) अपवर्तयति, अपसारयति, किञ्च (सुजातता) सुजन्मना। सुजातता सुजाततया। ‘सुपां सुलुक्०’ अ० ७।१।३९ इति तृतीयैकवचने पूर्वसवर्णदीर्घः। (वर्तनिम्) मार्गम् (सं वर्तयति) प्रकाशयति, तथा (उषाः) योगशास्त्रे प्रसिद्धा आत्मख्यातिः (स्वसुः) जीवात्मनि रागद्वेषादिप्रक्षेप्त्र्याः अविद्यायाः। सु तीव्रतया अस्यति क्षिपतीति स्वसा तस्याः। सुपूर्वात् असु क्षेपणे धातोः ‘सावसेर्ऋन्। उ० २।९८’ इति ऋन् प्रत्ययः। (तम्) तामसं प्रभावम् (अप) अपसारयति, किञ्च (सुजातता) सुजन्मना (वर्तनिम्) साधकस्य योगमार्गम् (सं वर्तयति) अध्यात्मप्रकाशेन प्रकाशयति ॥५॥
Essence
ये जना अविद्यारात्रिमपगमय्य विवेकख्यातिरूपाया उषसः प्रकाशं प्राप्नुवन्ति ते मुक्तेरधिकारिणो जायन्ते ॥५॥
Subject
अथ उषा देवता। उषसो महत्त्वमाह।
Footnote
१. ऋ० १०।१७२।४। अथ० १९।१२।१ पूर्वार्द्धः, ऋषिः वसिष्ठः।