Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 450

1875 Mantra
Devata- इन्द्रः Rishi- बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च क्रमेण गोपायना लौपायना वा Chhand- द्विपदा गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
वि꣡श्व꣢स्य꣣ प्र꣡ स्तो꣢भ पु꣣रो꣢ वा꣣ स꣡न्यदि꣢꣯ वे꣣ह꣢ नू꣣न꣢म् ॥४५०

वि꣡श्व꣢꣯स्य । प्र । स्तो꣢भ । पुरः꣢ । वा꣣ । स꣢न् । य꣡दि꣢꣯ । वा꣣ । इह꣢ । नू꣣न꣢म् ॥४५०॥

Mantra without Swara
विश्वस्य प्र स्तोभ पुरो वा सन्यदि वेह नूनम् ॥४५०

विश्वस्य । प्र । स्तोभ । पुरः । वा । सन् । यदि । वा । इह । नूनम् ॥४५०॥

Samveda - Mantra Number : 450
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) सर्वेषां साहाय्यप्रद जगदीश्वर ! त्वम् (विश्वस्य) सर्वस्य, सर्वानपीत्यर्थः। द्वितीयार्थे षष्ठी। (प्र स्तोभ) प्रकर्षेण स्तभान, अवलम्बं प्रयच्छ। ष्टुभु स्तम्भे, भ्वादिः। ‘तिङ्ङतिङः’ अ० ८।१।२८ इति निघातः। (पुरो वा सन्) प्रत्यक्षं वा विद्यमानः, (यदि वा) अथवा (इह) अस्मिन् जीवने (नूनम्) अप्रत्यक्षं विद्यमानः भवेः। नूनम् इति उक्ताद् विपरीतं गमयति, यथा ‘न नूनमस्ति नो श्वः’ ऋ० १।१७०।१ इत्यत्र ‘श्वः’ इत्यस्माद् विपरीतम् ‘अद्य’ इत्यर्थम् ॥४॥
Essence
प्रत्यक्षं वा परोक्षं वा सदैव परमेश्वरोऽस्मानवलम्बते। यद्यपि स सर्वदा सर्वेषां समक्षमेव विद्यते, तथापि दिवान्धत्वग्रस्ता जनाः सांसारिकपदार्थानिव दुर्विवेकग्रस्ता वयं तं यदा न निभालयामस्तदा स परोक्ष उच्यते ॥४॥
Subject
अथेन्द्रो देवता। स प्रार्थ्यते।