Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 45

1875 Mantra
Devata- अग्निः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बृहती Swara- मध्यमः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
ए꣣ना꣡ वो꣢ अ꣣ग्निं꣡ नम꣢꣯सो꣣र्जो꣡ नपा꣢꣯त꣣मा꣡ हु꣢वे । प्रि꣣यं꣡ चेति꣢꣯ष्ठमर꣣ति꣡ꣳ स्व꣢ध्व꣣रं꣡ विश्व꣢꣯स्य दू꣣त꣢म꣣मृ꣡त꣢म् ॥४५॥

ए꣣ना꣢ । वः꣣ । अग्नि꣢म् । न꣡म꣢꣯सा । ऊ꣣र्जः꣢ । न꣡पा꣢꣯तम् । आ । हु꣣वे । प्रिय꣢म् । चे꣡ति꣢꣯ष्ठम् । अर꣣ति꣢म् । स्व꣣ध्वरम् । सु । अध्वर꣢म् । वि꣡श्व꣢꣯स्य दू꣣त꣢म् । अ꣣मृ꣡त꣢म् । अ꣣ । मृ꣡त꣢꣯म् ॥४५॥

Mantra without Swara
एना वो अग्निं नमसोर्जो नपातमा हुवे । प्रियं चेतिष्ठमरतिꣳ स्वध्वरं विश्वस्य दूतममृतम् ॥

एना । वः । अग्निम् । नमसा । ऊर्जः । नपातम् । आ । हुवे । प्रियम् । चेतिष्ठम् । अरतिम् । स्वध्वरम् । सु । अध्वरम् । विश्वस्य दूतम् । अमृतम् । अ । मृतम् ॥४५॥

Samveda - Mantra Number : 45
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
अहम् (एना२) एतेन (नमसा) नमस्कारेण (ऊर्जः नपातम्) बलस्य प्राणशक्तेश्च अपत्यम्, अतिशयेन बलवन्तं प्राणवन्तं चेत्यर्थः३। (प्रियम्) स्नेहास्पदम्, (चेतिष्ठम्४) अतिशयेन चेतितारं चेतयितारं वा। चिती संज्ञाने, तृजन्तात् चेतृ शब्दादिष्ठनि ‘तुरिष्ठेमेयस्सु।’ अ० ६।४।१५४ इति तृलोपः। (अरतिम्५) सर्वगतं सुखप्रापकं वा। ऋ गतिप्रापणयोः इत्यस्मात् वहिवस्यर्तिभ्यश्चित्।’ उ० ४।६० इति अतिप्रत्ययः। (स्वध्वरम्) उत्कृष्टः अहिंसामयः सृष्टिसञ्चालनयज्ञो यस्य तम्, (विश्वस्य) सर्वस्य (दूतम्) दुःखदोषादीनां दूरीकर्तारं, धर्मार्थकाममोक्षाणां प्रापकं, कामक्रोधादिशत्रूणाम् उपतापकं च। दु गतौ, भ्वादिः टुदु उपतापे स्वादिः। दावयतेः दुनोतेर्वा दुतनिभ्यां दीर्घश्च।’ उ० ३।९० इति क्तप्रत्ययः। धातोर्दीर्घश्च। (अमृतम्) स्वरूपेण नाशरहितम् (वः) त्वाम्, पूजायां बहुवचनम्। (अग्निम्) परमात्मानम् (आहुवे) आह्वयामि, स्तौमीत्यर्थः। आङ्पूर्वाद् ह्वेञ् धातोः बहुलं छन्दसि।’ अ० ६।१।३४ इति सम्प्रसारणे रूपम् ॥१॥६
Essence
यः परमात्मा बलप्राणयोर्निधिर्भक्तवत्सलः, पूर्णज्ञानी, सर्वव्यापकः, सुखज्ञानादिप्रदाता, दुःखदारिद्र्यादिविनाशको, यज्ञकुशलो, दोषदाहको, गुणप्रापको मरणधर्मरहितश्चास्ति, स सर्वैः प्रेम्णा सश्रद्धं स्तोतव्यः ॥१॥
Subject
तत्राद्ये मन्त्रे परमात्मनो गुणान् वर्णयति।
Footnote
१. ऋ० ७।१६।१, य० १५।३२, साम० ७४९। २. एनेति तृतीयैकवचनस्य पूर्वसवर्णः। अनन्वादेशे छान्दसत्वाद् इदं- शब्दस्य एनादेशः। एनमिति वा अग्नेर्विशेषणम्, द्वितीयैक- वचनस्य आकारः—इति भ०। ३. ऊर्ज बलप्राणनयोः। नपात् इति अपत्यनाम। निघं० २।२। यो हि यस्य अपत्यमुच्यते तस्मिंस्तस्यातिशयो द्योत्यते इति वै वैदिकी शैली। ४. चेतिष्ठम् अतिशयेन चेतितारं ज्ञातारमित्यर्थः—इति वि०। अति- शयेन चेतयितारं सञ्ज्ञापकम्—इति य–० १५।३२ भाष्ये द०। ५. अरतिम् असंमतिम्, अथवा यजमानं देवाँश्च प्रति गन्तारम्—इति वि०। अर्तेः अरतिः स्वामी—इति भ०। गन्तारं स्वामिनं वा—इति सा०। सुखप्रापकम् इति ऋ० ७।१६।१ भाष्ये द०। ६. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये राजप्रजाविषये यजुर्भाष्ये च विद्युद्विद्याविषये व्याख्यातः।