Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 448

1875 Mantra
Devata- अग्निः Rishi- बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च क्रमेण गोपायना लौपायना वा Chhand- द्विपदा विराट् पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣢ग्ने꣣ त्वं꣢ नो꣣ अ꣡न्त꣢म उ꣣त꣢ त्रा꣣ता꣢ शि꣣वो꣡ भु꣢वो वरू꣣꣬थ्यः꣢꣯ ॥४४८॥

अ꣡ग्ने꣢꣯ । त्वम् । नः꣣ । अ꣡न्त꣢꣯मः । उ꣣त꣢ । त्रा꣣ता꣢ । शि꣣वः꣢ । भु꣣वः । वरूथ्यः꣢꣯ ॥४४८॥

Mantra without Swara
अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः ॥

अग्ने । त्वम् । नः । अन्तमः । उत । त्राता । शिवः । भुवः । वरूथ्यः ॥४४८॥

Samveda - Mantra Number : 448
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अग्रणीः परमात्मन् राजन् वा ! (त्वम् नः) अस्मभ्यम् (अन्तमः) अन्तिकतमः, (उत) अपिच (त्राता) विपद्भ्यो रक्षकः, (शिवः) कल्याणकरः, (वरूथ्यः२) वरणीयः गृहेभ्यो हितश्च (भुवः) भव। वृञ् वरणे धातोः ‘जॄवृञ्भ्यामूथन्’ उ० २।६ इति ऊथन् प्रत्ययः। वरूथः वरणीयः, स एव वरूथ्यः, स्वार्थे यत्। यद्वा, वरूथमिति गृहनाम। निघं० ३।४। वरूथेभ्यो गृहेभ्यो हितः वरूथ्यः। हितार्थे यत् ॥२॥ अत्र अर्थश्लेषालङ्कारः ॥२॥
Essence
यथा परमेश्वरोऽस्माकं निकटतमो विघ्नविद्वेषपापादिभ्यस्त्राता, मङ्गलकरः शरीरगृहाणां हितावहश्च जायते, तथा निर्वाचनपद्धत्या वृतो राजा प्रजानां समीपतमो भूत्वा विपत्त्राता, सुखशान्तिकर आवासगृहाणां निर्माणाय धनादिप्रदाता च भवेत् ॥२॥
Subject
अथाग्निनाम्ना परमात्मानं राजानं च प्रार्थयते।
Footnote
१. ऋ० ५।२४।१, ऋषयः बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च गौपायना लौपायना वा। यजुर्वेदे ३।२५, १५।४८, २५।४७ इत्यत्र पूर्वभागत्वेन प्राप्यते, यत्र ऋषिः क्रमेण सुबन्धुः, परमेष्ठी, गोतमश्च। सर्वत्र ‘भुवो’ इत्यत्र ‘भवा’ इति पाठः। २. वरूथ्यः वरणीयः संभजनीयः। अथवा वरूथं गृहम्, गृहे भवः नित्यसंनिहितः। वरूथैः परिधिभिर्वृत इति शाट्यायनकम्—इति भ०।