Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 447

1875 Mantra
Devata- अग्निः Rishi- पृषध्रः काण्वः Chhand- द्विपदा गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣡चे꣢त्य꣣ग्नि꣡श्चिकि꣢꣯तिर्हव्य꣣वाड्न꣢꣫ सु꣣म꣡द्र꣢थः ॥४४७॥

अ꣡चे꣢꣯ति । अ꣣ग्निः꣢ । चि꣡कि꣢꣯तिः । ह꣣व्यवा꣡ट् । ह꣣व्य । वा꣢ट् । न । सु꣣म꣡द्र꣢थः । सु꣣म꣢त् । र꣣थः ॥४४७॥

Mantra without Swara
अचेत्यग्निश्चिकितिर्हव्यवाड्न सुमद्रथः ॥

अचेति । अग्निः । चिकितिः । हव्यवाट् । हव्य । वाट् । न । सुमद्रथः । सुमत् । रथः ॥४४७॥

Samveda - Mantra Number : 447
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अग्निः) अग्रणीः परमेश्वरः (अचेति) अस्माभिः अज्ञायि, अनुभूतः इत्यर्थः, यः (चिकितिः२) सर्वज्ञः। अत्र किती संज्ञाने धातोः ‘किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्’ अ० ३।२।१७१ वा० इति किन् प्रत्ययः लिड्वच्च। नित्त्वादाद्युदात्तः। किञ्च, यः (सुमद्रथः३) सुमन्तः शोभनाः रथाः विमानादियानानि यस्मात् सः (हव्यवाड् न) विद्युदग्निः इव (सुमद्रथः) सुमन्तः श्रेष्ठाः रथाः शरीररथाः, रंहणशीलाः सूर्यचन्द्रभूगोलादयो वा यस्मात् तादृशः वर्तते ॥१॥ अत्र श्लिष्टोपमालङ्कारः ॥१॥
Essence
यथा परमात्मा सर्वैः साक्षात्करणीयस्तथैव विद्युदग्निरपि ज्ञेयः, ज्ञात्वा च तं शिल्पोन्नत्या समाचारप्रेषणविमानादियानचालन- प्रभृतीनि कार्याणि करणीयानि ॥१॥
Subject
तत्राद्यास्तिस्रोऽग्निदेवताकाः। प्रथमायामग्निनाम्ना परमात्मानं वर्णयति।
Footnote
१. ऋ० ८।५६।५ पूर्वार्द्धः। २. चिकितिः ज्ञाता विश्वस्य—इति भ०। ३. सुमद्रथः प्रशस्तरथः—इति भ०। सुमतां प्रशस्तज्ञानानां रथ इव रथो यस्मात् सः इति ऋ० ३।३।९ भाष्ये—द०।