Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 446

1875 Mantra
Devata- इन्द्रः Rishi- त्रसदस्युः Chhand- द्विपदा विराट् पङ्क्तिः Swara- पञ्चमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
प्र꣢ व꣣ इ꣡न्द्रा꣢य वृत्र꣣ह꣡न्त꣢माय꣣ वि꣡प्रा꣢य गा꣣थं꣡ गा꣢यत꣣ यं꣢ जु꣣जो꣡ष꣢ते ॥४४६॥

प्र꣢ । वः꣣ । इ꣡न्द्रा꣢꣯य । वृ꣣त्रह꣡न्त꣢माय । वृ꣣त्र । ह꣡न्त꣢꣯माय । वि꣡प्रा꣢꣯य । वि । प्रा꣣य । गाथ꣢म् । गा꣣यत । य꣢म् । जु꣣जो꣡ष꣢ते ॥४४६॥

Mantra without Swara
प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते ॥

प्र । वः । इन्द्राय । वृत्रहन्तमाय । वृत्र । हन्तमाय । विप्राय । वि । प्राय । गाथम् । गायत । यम् । जुजोषते ॥४४६॥

Samveda - Mantra Number : 446
(Kauthum) पूर्वार्चिकः: » Prapathak » 5; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 4; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सखायः ! (वः) यूयम् (वृत्रहन्तमाय२) अतिशयेन पापाज्ञानादीनां हन्त्रे, (विप्राय) विपश्चिते, मेधाविने (इन्द्राय) वीराय परमेश्वराय (गाथम्) स्तोत्रम्। गीयते इति गाथः। गायतेः ‘उषिकुषिगार्तिभ्यस्थन्’ उ० २।४। इति थन्। (गायत) कीर्तयत, (यम्) यं गाथं स्तोत्रम्, सः (जुजोषते३) प्रीत्या सेवते। जुषी प्रीतिसेवनयोः तुदादिः, लेटि ‘बहुलं छन्दसि अ० २।४।७६’ इति शपः श्लौ द्वित्वम्, ‘लेटोऽडाटौ अ० ३।४।९४’ इत्यडागमः ॥१०॥
Essence
सामस्तोत्रैः परमेश्वरमाराध्य ततः पुरुषार्थस्य पापविनाशस्य मेधायाश्च प्रेरणा सर्वैर्ग्राह्या ॥१०॥ अत्रेन्द्रस्य गुणवर्णनपूर्वकं तत्स्तुतिं प्रति प्रेरणात्, तदीयरथवज्रवर्णनात्, तत्सम्बद्धानां वाग्धेनुकिरणानां विदुषां च पवित्रत्ववर्णनात्, तत्सम्बद्धाया उषस आह्वानात्, तदीयार्चनफलकथनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सङ्गतिरस्ति ॥ इति पञ्चमे प्रपाठके द्वितीयार्द्धे प्रथमा दशतिः ॥ इति चतुर्थेऽध्याये दशमः खण्डः ॥
Subject
अथ जनान् प्रेरयति।
Footnote
१. साम० १११३। २. वृत्रहन्तमाय अतिशयेन पापानां हन्त्रे—इति भ०। ३. जुजोषते भृशं सेवते प्रीयते वा—इति भ०।